This page has been fully proofread once and needs a second look.

धारण्या भवान् भुवि सूर्याचन्द्रमसोस्तृतीय <error>इवाविच्छिन्न</error> <fix>इवाविच्छिन्नस्य</fix>
महतो राजवंशस्य कर्ता भविष्यति। यस्मिन्नुत्पत्स्यते सर्वद्वी-
पानां भोक्ता हरिश्चन्द्र इव हर्षनामा चक्रवर्ती" इति वचसोऽ-
तिरोबभूव॥
 
भूमिपालस्तु तदाकर्ण्य हृदयेन अतिमात्रमप्रीयत। भैरवा-
चार्योऽपि तस्या देव्यास्तेन वचसा कर्मणा च सम्यगुपपादिते
सद्य एव कुन्तली किरीटी कुण्डली हारी केयूरी मेखली <flag>मुद्ग</flag>
खड्गी च भूत्वा अवाप विद्याधरत्वम्। प्रोवाच च - "राजन्
अदूरव्यापिनः फल्गुचेतसामलसानां मनोरथाः। सतां तु भुवि
विस्तारवत्यः स्वभावेनैवोपकृतयः। स्वप्नेऽप्यसंभावितां दातुमिम
दक्षिणां क्षमः कोऽन्यो भवन्तमपहाय। संपत्कणिकामपि प्राप्य
तुलेव लघुप्रकृतिरुन्नतिमायाति। त्वदीयैर्गुणैरुपकरणीकृतस्-
त्वत्त एव च लब्धात्मलाभस्य निर्लज्जता इयमस्य मूढहृद-
यस्य। तदिच्छामि येन केनचित्कार्यलवोपपादनोपयोगेन स्मरयि-
तुमात्मानम्" इति। प्रत्युपकारदुष्प्रवेशास्तु भवन्ति धीराणां हृद-
यावष्टम्भाः। यतस्तं राजा "भवत्सिद्ध्यैव परिसमाप्तकृत्योऽस्मि
साधयतु मान्यो यथासमीहितं स्थानम्" इति प्रत्याचचक्षे॥
 
तथोक्तश्च भूभुजा जिगमिषुः सुदृढं समालिङ्ग्य टीटि-
भादीन्, सास्रेण चक्षुषा वीक्षमाणः क्षितिपतिं पुनरुवाच--
"तात, किं ब्रवीमि? यामीति, न स्नेहसदृशम् त्वदीयाः प्राणा
इति, पुनरुक्तम्। निष्कारणस्तवोपकार इति, अनुवादः। स्मर्तव्या
 
[commentary]
 
सूर्यश्च चन्द्रमाश्च सूर्याचन्द्रमसौ। गन्तुमिच्छुः जिगमिषुः॥