2023-02-25 16:01:04 by Narayan
This page has been fully proofread once and needs a second look.
धारण्या भवान् भुवि सूर्याचन्द्रमसोस्तृतीय <error>इवाविच्छिन्न</error> <fix>इवाविच्छिन्नस्य</fix>
महतो राजवंशस्य कर्ता भविष्यति। यस्मिन्नुत्पत्स्यते सर्वद्वी-
पानां भोक्ता हरिश्चन्द्र इव हर्षनामा चक्रवर्ती" इति वचसोऽ-
तिरोबभूव॥
भूमिपालस्तु तदाकर्ण्य हृदयेन अतिमात्रमप्रीयत। भैरवा-
चार्योऽपि तस्या देव्यास्तेन वचसा कर्मणा च सम्यगुपपादिते
सद्य एव कुन्तली किरीटी कुण्डली हारी केयूरी मेखली <flag>मुद्ग</flag>
खड्गी च भूत्वा अवाप विद्याधरत्वम्। प्रोवाच च - "राजनन्
अदूरव्यापिनः फल्गुचेतसामलसानां मनोरथाः । सतां तु भुवि
विस्तारवत्यः स्वभावेनैवोपकृतयः । स्वप्नेऽप्यसंभावितां दातुमिम
दक्षिणां क्षमः कोऽन्यो भवन्तमपहाय । संपत्कणिकामपि प्रापप्य
तुलेव लघुप्रकृतिरुन्नतिमायाति 1। त्वदीयैर्गुणै रुपकरणीकृतरुस्-
त्वत्त एव च लब्धात्मलाभस्य निर्लज्जता इयमस्य मूढहृद
यस्य-
यस्य। तदिच्छामि येन केनचित्कार्यलवोपपादनोपयोगेन स्मरयि-
तुमात्मानम्" इति । प्रत्युपकारदुष्प्रवेशास्तु भवन्ति धीराणां हृद-
यावष्टम्भाः । यतस्तं राजा " भवत्सिद्ध्यैव परिसमाप्तकृत्योऽस्मि
साधयतु मान्यो यथासमीहितं स्थानम्" इति प्रत्याचचक्षे ॥
तथोक्तश्च भूभुजा जिगमिषुः सुदृढं समालिङ्ग्य टीटि.-
भादीन्, सास्रेण चक्षुषा वीक्षमाणः क्षितिपतिं पुनरुवाच --
"तात, किं ब्रवीमि ? यामीति, न स्नेहसदृशम् । त्वदीयाः प्राणणा
इति, पुनरुक्तम् । निष्कारणस्तवोपकार इति, अनुवादः । स्मर्तव्या
[commentary]
सूर्यश्च चन्द्रमाश्च सूर्याचन्द्रमसौ । गन्तुमिच्छु:छुः जिगमिषुः ॥
महतो राजवंशस्य कर्ता भविष्यति। यस्मिन्नुत्पत्स्यते सर्वद्वी-
पानां भोक्ता हरिश्चन्द्र इव हर्षनामा चक्रवर्ती" इति वचसोऽ-
तिरोबभूव॥
भूमिपालस्तु तदाकर्ण्य हृदयेन अतिमात्रमप्रीयत। भैरवा-
चार्योऽपि तस्या देव्यास्तेन वचसा कर्मणा च सम्यगुपपादिते
सद्य एव कुन्तली किरीटी कुण्डली हारी केयूरी मेखली <flag>मुद्ग</flag>
खड्गी च भूत्वा अवाप विद्याधरत्वम्। प्रोवाच च - "राज
अदूरव्यापिनः फल्गुचेतसामलसानां मनोरथाः
विस्तारवत्यः स्वभावेनैवोपकृतयः
दक्षिणां क्षमः कोऽन्यो भवन्तमपहाय
तुलेव लघुप्रकृतिरुन्नतिमायाति
त्वत्त एव च लब्धात्मलाभस्य निर्लज्जता इयमस्य मूढहृद
यस्य
यस्य। तदिच्छामि येन केनचित्कार्यलवोपपादनोपयोगेन स्मरयि-
तुमात्मानम्" इति
यावष्टम्भाः
साधयतु मान्यो यथासमीहितं स्थानम्" इति प्रत्याचचक्षे
तथोक्तश्च भूभुजा जिगमिषुः सुदृढं समालिङ्ग्य टीटि
भादीन्, सास्रेण चक्षुषा वीक्षमाणः क्षितिपतिं पुनरुवाच
"तात, किं ब्रवीमि
इति, पुनरुक्तम्
[commentary]
सूर्यश्च चन्द्रमाश्च सूर्याचन्द्रमसौ