This page has been fully proofread once and needs a second look.

<flag>तौ </flag>। नचिराच्च पातयामास भूतले भुजंगं भूपतिः। जग्राह
च केशेषु। उच्चखान च शिरश्छेत्तुमट्टहासम्। अपश्यश्च वैकक्ष-
कमालान्तरेणास्य यज्ञोपवीतम्। उपसंहृतशस्त्रव्यापारश्चावादीत्-
"दुर्विनीत, अस्ति ते दुर्विनय निर्वाहबीजमिदम्। यतो विस्रब्ध-
मेवाचरसि चापलानि " इत्युक्त्वा उत्ससर्ज तम्॥
 
अनन्तरं च सहसैवातिबहुलां ज्योत्स्नां ददर्श। शरदि
विकसतां कमलवनानामिव च घ्राणावलेपिनामामोदमजिघ्रत्
झटिति च नूपुरशब्दमशृणोत् । व्यापारयामास च शब्दानुसारेण
दृष्टिम्॥
 
अथ करतलस्थितस्याट्टहासस्य मध्ये तटितमिव नीलजल-
धरोदरे स्फुरन्तीं तामरसहस्तां मृणालकोमलैरवयवैः कमलसं-
भवत्वमनक्षरमाचक्षाणां स्त्रियमपश्यत्। असंभ्रान्तश्च पप्रच्छ-
"भद्रे कासि? किमर्थं वा दर्शनपथमागतासि?" इति। सा
तु स्त्रीजनविरुद्धेनावष्टम्भेन अभिभवन्तीवाभाषत तम्--"वीर,
विद्धि मां नारायणोरःस्थलीविहारहरिणीम् असिधाराजलकम-
लिनीं श्रियम्। अपहृतास्मि तवामुना शौर्यरसेन। याचस्व।
ददामि ते वरमभिलषितम्" इति॥
 
वीराणां तु अपुनरुक्ताः परोपकाराः। यतो राजा तां
प्रणम्य स्वार्थविमुखो भैरवाचार्यस्य सिद्धिं ययाचे। लक्ष्मीस्तु
देवी प्रीततरहृया भूपालम् 'एवमस्तु' इत्यब्रवीत्। अवादीच्च
पुनः--"अनेन सत्त्वोत्कर्षेण भगवच्छिवभट्टारकभक्त्या चासा-
 
[commentary]
 
चापलम् अविमृश्यकरणम् । दर्शनस्य पन्थाः दर्शनपथः॥