This page has been fully proofread once and needs a second look.

तृतीयोच्छवासः ।
 

 
अवनिपतिस्तु "कोऽत्र कः" इति त्रीनपृच्छत् । आचचक्षिरे च

स्वं स्वं नाम त्रयोऽपि ते । तैरेव चानुगम्यमानो जगाम तां

समुपकल्पित सर्वोपकरणां निःशब्दां च गभीरां च भीषणां च

सानभूमिम् अवनिपतिः
 

 
तस्यां च भस्मना लिखितस्य महतो मण्डलस्य मध्ये

स्थितम्, रक्तचन्दनानुलेपिनो रक्तस्रगम्बराभरणस्य उत्तानशयस्य

शवस्योरसि उपविश्य जातजातवेदसि मुखकुहरे प्रारब्धाग्निका
-
र्यम्, कृष्णोष्णीषम्, कृष्णाङ्गरागम्, कृष्णप्रतिसरम्, कृष्णवास-

सम्, मुखेन किमपि जपन्तं कृष्णतिलाहुतिकरं भैरवाचार्यम-

पश्यत् । उपसृत्य चाकरोन्नमस्कारम् । अभिनन्दितश्च तेन

स्वव्यापारमन्वतिष्ठत्
 

 
अत्रान्तरे पातालस्वामी शातक्रतवीमाशामङ्गीचकार, कर्ण-

ताल:लः कौबेरीम्, परित्व्राट् प्राचेतसीम् । राजा तु त्रैशङ्कवेन ज्यो-

तिषा अङ्कितां ककुभमलंकृतवान्
 

 
एवं चावस्थितेषु तेषु दिक्पालेषु विस्रब्धं कर्म साधयति

भैरवं भैरवाचार्ये, अतिचिरं कृतकोलाहलेषु निष्फलप्रयत्नेषु

प्रत्यूहकारिषु शान्तेषु कौणपेषु, गलत्यर्धरात्रसमये, मण्डलस्य

नातिदवीयसि उत्तरेण अकस्मात्क्षितिरदीर्यंत यत। सहसैव च तस्मा-

 
[commentary]
 
उत्तान: शेते उत्तानशयः । जाते जाते विद्यते, जातं जातं वेत्ति वा

जातवेदाः । उष्णम् ईषते हिनस्ति इति उष्णीषं शिरोवेष्ट: टः। प्रत्यूहः विघ्नः

रात्रेः अर्धम् अर्धरात्रः । दूर, दवीयान्, दविष्ठः । उत्तरेणेत्यव्ययम्

उत्तरदेशे
 
>