This page has not been fully proofread.

तृतीयोच्छवासः ।
 

 
अवनिपतिस्तु "कोऽत्र कः" इति त्रीनपृच्छत् । आचचक्षिरे च
स्वं स्वं नाम त्रयोऽपि ते । तैरेव चानुगम्यमानो जगाम तां
समुपकल्पित सर्वोपकरणां निःशब्दां च गभीरां च भीषणां च
सावनभूमिम् अवनिपतिः ॥
 
तस्यां च भस्मना लिखितस्य महतो मण्डलस्य मध्ये
स्थितम्, रक्तचन्दनानुलेपिनो रक्तस्रगम्बराभरणस्य उत्तानशयस्य
शवस्योरसि उपविश्य जातजातवेदसि मुखकुहरे प्रारब्धाग्निका
र्यम्, कृष्णोष्णीषम्, कृष्णाङ्गरागम्, कृष्णप्रतिसरम्, कृष्णवास-
सम्, मुखेन किमपि जपन्तं कृष्णतिलाहुतिकरं भैरवाचार्यम-
पश्यत् । उपसृत्य चाकरोन्नमस्कारम् । अभिनन्दितश्च तेन
स्वव्यापारमन्वतिष्ठत् ॥
 
अत्रान्तरे पातालस्वामी शातक्रतवीमाशामङ्गीचकार, कर्ण-
ताल: कौबेरीम्, परित्राट् प्राचेतसीम् । राजा तु त्रैशकवेन ज्यो-
तिषा अङ्कितां ककुभमलंकृतवान् ॥
 
एवं चावस्थितेषु तेषु दिक्पालेषु विस्रब्धं कर्म साधयति
भैरवं भैरवाचार्ये, अतिचिरं कृतकोलाहलेषु निष्फलप्रयत्नेषु
प्रत्यूहकारिषु शान्तेषु कौणपेषु, गलत्यर्धरात्रसमये, मण्डलस्य
नातिदवीयसि उत्तरेण अकस्मात्क्षितिरदीर्यंत । सहसैव च तस्मा-
उत्तान: शेत उत्तानशयः । जाते जाते विद्यते, जातं जातं वेत्ति वा
जातवेदाः । उष्णम् ईषते हिनस्ति इति उष्णीषं शिरोवेष्ट: । प्रत्यूहः विघ्नः ।
रात्रेः अर्धम् अर्धरात्रः । दूर दवीयान् दविष्ठः । उत्तरेणेत्यव्ययम्
उत्तरदेशे ॥
 
>