This page has not been fully proofread.


 
हर्षचरित संग्रहे
 
भवन्तमुपतिष्ठते । द्वितीयः स पातालस्वामी । अपरो मच्छिष्य
एव कर्णतालनामा द्राविडः । यदि साधु मन्यसे, ततो नीयतामयं
दिङ्नागहस्तदीर्घो गृहीतागृहासो निशामेकामेकदिङ्मुखार्गलतां
बाहुः" इति ॥
 
"भगवन्,
 
कृतवचसि च तस्मिन् नरेन्द्रः समभाषत-
परमनुगृहीतोऽस्मि अनेन शिष्यजनसामान्येन निदेशेन । कृत-
परिग्रहमिवात्मानमवैमि" इति । ननन्द च तेन नरेन्द्रव्याहृतेन
भैरवाचार्य: । चकार च संकेतम् –"अस्यामेव आगामिन्याम-
सितपक्षचतुर्दशीक्षपायाम् इयत्यां वेलायाम् अमुष्मिन्महाश्मशान-
समीपभाजि शून्यायतने शस्त्रद्वितीयेन आयुष्मता द्रष्टव्या वयम्
इति । अथातिक्रान्तेष्वहस्सु प्राप्तायां च तस्यामेव कृष्णचतुर्दश्यां
शैवेन विधिना दीक्षितः क्षितिपो नियमवानभूत् । कृताधिवासं च
संपादितगन्धधूपमाल्यादिपूजं खड्गमट्टहासमकरोत् ॥
 
5
 
9
 
wings of the thesis is to
 
M
 
ततः परिणते दिवसे, राजा सान्तः पुरं परिजनं वञ्चयित्वा
खड्गमादाय एकाकी नगरान्निरगात् । अगाच्च तमुद्देशम् ॥
 
अथ प्रत्युज्जग्मुस्ते त्रयः संनद्धाः स्नाताः स्रग्विणो बद्धासि -
धेनवः टोटिभकर्णतालपातालस्वामिनः । निवेदितवन्तश्चात्मानम् ।
उपतिष्ठते उपश्लिष्यति । उपाद्देवपूजा सगतिकरण मित्रकरणपथिष्विति
नियमदिवसादाद्ये अहनि
वाच्यम्" इत्यात्मनेपदम् । अधिवासः वासना ।
यथाशास्त्रं विधिना मन्त्रन्यासादिः । पर्वपूजेति यावत्" इति शंकर । एकाकी
असहायः । "एकादा किनिन्चासहाये" । संनद्धाः कवचिनः ।
सजो दंशितो व्यूढकङ्कटः इत्यमरः ।
 
66
 
संनद्धो वर्मितः
 
असिधेनुः शस्त्री ।