2023-02-25 15:52:30 by Narayan
This page has been fully proofread once and needs a second look.
तेन ब्रह्मराक्षसहस्तादपहृतो महासिः अट्टहासनामा। सोऽयं भव-
द्भुजयोग्यो गृह्यताम्' इति" इत्यभिधाय, अपहृतकर्पटावच्छादना-
त्परिवारादाचकर्ष शरद्गगनमिव पिण्डतां नीतम्, कालिन्दी-
प्रवाहमिव स्तम्भितजलम्, कुलमित्रं कोपस्य, अपत्यं मृत्योः,
आगमनमार्गं लक्ष्म्याः, कृपाणम्॥
अवनिपतिस्तु तं गृहीत्वा करेण सुचिरं ददर्श। संदिदेश
च--"वक्तव्यो भगवान्--परद्रव्यग्रहणावज्ञादुर्विदग्धमपि हि
मे मनो युष्मद्विषये न शक्नोति वचनव्यतिक्रममाचरितुम्" इति।
परिव्राट् तु गृहीते तस्मिन्, परितुष्ट: "स्वस्ति भवते। साधयामः"
इत्युक्त्वा निरयासीत् ॥
अथ व्रजत्सु दिवसेषु, एकदा, भैरवाचार्यो राजानमुपह्वरे
सोपग्रहमवादीत्--"तात, स्वार्थालसाः परोपकारदक्षाश्च प्रकृ-
तयो भवन्ति भव्यानाम्। भवादृशां चार्थिदर्शनं महोत्सवः।
भूमिरसि सर्वलोकमनोरथानाम्। येनाभिधीयसे। श्रूयताम्--
भगवतो महाकालहृदयनाम्नो महामन्त्रस्य कृष्णस्रगम्बरानुलेपेना-
कल्पेन कल्पकथितेन महाश्मशाने जपकोट्या कृतपूर्वसेवोऽस्मि।
तस्य वेतालसाधनावसाना सिद्धिः। असहायैश्च सा दुरापा। त्वं
चालमस्मै कर्मणे। त्वयि च गृहीतभरे भविष्यन्त्यपरे सहाया-
स्त्रयः। एकः स एवास्माकं टीटिभनामा बालमित्रं मस्करी, यो
[commentary]
उपग्रहः अभ्यर्थना, अनुवृत्तिर्वा। भव्याः योग्याः। आकल्पः वेषः।
अलं पर्याप्तः। नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च" इति चतुर्थी॥