This page has been fully proofread once and needs a second look.

आसीने च सराजके परिजने शिष्यजने च, समुचित
मर्घ्यादिकं चक्रे। क्रमेण च नृपमाधुर्यापहृतान्तःकरण उवाच--
"तात, अतिनम्रतैव ते कथयति गुणानां गौरवम्। सकलसंप
त्पात्रमसि। विभवानुरूपास्तु प्रतिपत्तयः। जन्मनः प्रभृत्यदत्त
दृष्टिरस्मि स्वापतेयेषु। धनैरविक्रीतं क्वचित् शरीरकमस्ति। भैक्ष
रक्षिताः सन्ति प्राणाः। दुर्गृहीतानि कतिचिद्विद्यन्ते विद्याक्षराणि
भगवच्छिवभट्टारकपादसेवया समुपार्जिता कियत्यपि संनिहित
पुण्यकणिका। स्वीक्रियताम्--यदत्रोपयोगार्हम्" इति॥
 
राजा तु तं प्रत्यवादीत्--"भगवन्, अनुक्तेष्वपि शरी
रादिषु साधूनां स्वामिन एव प्रणयिनः । युष्मदर्शनादुपार्जितमेवा
परिमितं कुशलजातम्" इति । विविधाभिश्च कथाभिश्चिरं <error>स्थित्व</error> <fix>स्थित्वा</fix>
गृहमगात्॥
 
अन्यस्मिन् दिवसे भैरवाचार्योऽपि राजानं द्रष्टुं ययौ
तस्मै च राजा सान्तःपुरं सपरिजनं सकोशमात्मानं निवेदित
वान्। स च विहस्य "तात, क्व विभवाः? क च वयं वन
वर्धिताः?" इत्युक्त्वा स्थित्वा च कंचित्कालं जगाम॥
 
परिव्राट् तेनैव क्रमेण पञ्च पञ्च राजतानि पुण्डरीकाण्यु
पायनीचकार। एकदा तु श्वेतकर्पटावृतं किमप्यादाय प्राविशत्
प्रविश्य च पूर्ववत्स्थित्वा मुहूर्तमब्रवीत्--"महाभाग, भवन्तमाह
भगवान्, यथा--'अस्मच्छिष्यः पातालस्वामिनामा ब्राह्मणः
 
[commentary]
 
गौरवम् उत्कर्षः, भारवत्त्वं च। भाराक्रान्तो हि नम्रो भवति
स्वपतौ साधु स्वापतेयं धनम्। "पथ्यतिथिवसतिस्वपतेर्ढञ्"॥