This page has been fully proofread once and needs a second look.

हर्षचरितसंग्रहे
 
आसीने च सराजके परिजने शिष्यजने च, समुचित
मर्ध्

मर्घ्
यादिकं चक्रे । क्रमेण च नृपमाधुर्यापहृतान्तःकरण उवाच -
--
"तात, अतिनम्रतैव ते कथयति गुणानां गौरवम् । सकलसंप

त्पात्रमसि । विभवानुरूपास्तु प्रतिपत्तयः । जन्मनः प्रभृत्यदत्त

दृष्टिरस्मि स्वापतेयेषु । धनैरविक्रीतं क्वचित् शरीरकमस्ति । भैक्ष

रक्षिताः सन्ति प्राणाः । दुर्गृहीतानि कतिचिद्विद्यन्ते विद्याक्षराणि

भगवच्छिवभट्टारकपादसेवया समुपार्जिता कियत्यपि संनिहित

पुण्यकणिका । स्वीक्रियताम्--यदत्रोपयोगार्हम्" इति
 

 
राजा तु तं प्रत्यवादीत्--"भगवन्, अनुक्तेष्वपि शरी

रादिषु साधूनां स्वामिन एव प्रणयिनः । युष्मदर्शनादुपार्जितमेवा

परिमितं कुशलजातम्" इति । विविधाभिश्च कथाभिश्चिरं <error>स्थित्व
</error> <fix>स्थित्वा</fix>
गृहमगात्
 

 
अन्यस्मिन् दिवसे भैरवाचार्योऽपि राजानं द्रष्टुं ययौ

तस्मै च राजा सान्तःपुरं सपरिजनं सकोशमात्मानं निवेदित
वान्

वान्
। स च विहस्य "तात, क् विभवाः ? क च वयं वन

वर्धिता: ताः?" इत्युक्त्वा स्थित्वा च कंचित्कालं जगाम
 

 
परित्व्राट् तेनैव क्रमेण पञ्च पञ्च राजतानि पुण्डरीकाण्यु

पायनीचकार । एकदा तु श्वेतकर्पटावृतं किमप्यादाय प्राविशत्

प्रविश्य च पूर्ववत्स्थित्वा मुहूर्तमब्रवीत्--"महाभाग, भवन्तमाह

भगवान्, यथा - --'अस्मच्छिष्यः पातालस्वामिनामा ब्राह्मणः
 
,
 
6
 

[Commentary]
गौरवम् उत्कर्षः, भारत्त्वं च । भाराकाक्रान्तो हि नम्रो भवति

स्वपतौ साधु स्वापतेयं धनम् । "पथ्यतिथिवसतिस्त्वपतेर्ढज्ञ्"