This page has been fully proofread once and needs a second look.

विद्युत्कपिलेन आत्मतेजसा शिष्यलोकं लिम्पन्तम्, अबहुभाषिणं
मन्दहासिनं सर्वोपकारिणं कुमारब्रह्मचारिणम्, धाम धर्मस्य,
पत्तनं पूततायाः, शालां शीलस्य, क्षेत्रं क्षमायाः, आकरं
करुणायाः, समाजं सौजन्यस्य, भगवन्तं साक्षादिव विरूपाक्षं
भैरवाचार्यं ददर्श॥
 
भैरवाचार्यस्तु दूरादेव राजानं दृष्ट्वा प्रत्युज्जगाम। समर्पित-
श्रीफलोपायनश्च गम्भीरया गिरा स्वस्तिशब्दमकरोत्। नरपति-
रपि दूरावनतः प्रणाममभिनवं चकार। आचार्योऽपि 'आ-
गच्छ। अत्रोपविश' इति शार्दूलचर्मात्मीयमदर्शयत्॥
 
उपदर्शितप्रश्रयस्तु राजा, मधुरसमयीं प्रवर्तयन्वाचं व्या-
जहार--"भगवन्, नार्हसि माम् अन्यनृपस्खलितैः खलीकर्तुम्।
अभूमिरयमुपचाराणाम्। अलमतियन्त्रणया। दूरस्थितोऽपि
मनोरथशिष्योऽयं जनो भवताम्। माननीयं च गुरुवन्नोल्लङ्घन-
मर्हति गुरोरासनम्। आसतां च भवन्त एवात्र" इति व्याहृत्य
परिजनोपनीते वाससि निषसाद। भैरवाचार्योऽपि प्रीत्या अन-
तिक्रमणीयं नृपवचनमनुवर्तमानः पूर्ववत्तदेव व्याघ्राजिनम-
भजत॥

[Ccommentary]

अहमेवेश्वर इति आहंकारिकम्" इति अष्टपुष्पिकां शंकरो व्याचष्टे । "अहिंसा
प्रथमं पुष्पं पुष्पमिन्द्रियनिग्रहः। सर्वभूतदया पुष्पं क्षमा पुष्पं विशेषतः॥
ज्ञानं पुष्पं तपः पुष्पं ध्यानं पुष्पं तथैव च। सत्यमष्टविधं पुष्पं विष्णोः प्रीति-
करं भवेत्" इत्येवम् अष्टपुष्पिकामपरे व्याचक्षते। श्रीफलं बिल्वफलम्।
यन्त्रणा निर्बन्धः॥