This page has been fully proofread once and needs a second look.

तृतीयोच्छ्वासः ।
 
विद्युत्कपिलेन आत्मतेजसा शिष्यलोकं लिम्पन्तम्, अबहुभाषिणं

मन्दहासिनं सर्वोपकारिणं कुमारब्रह्मचारिणम्, धाम धर्मस्य,

पत्तनं पूततायाः, शालां शीलस्य, क्षेत्रं क्षमायाः, आकरं

करुणायाः, समाजं सौजन्यस्य, भगवन्तं साक्षादिव विरूपाक्षं

भैरवाचार्यं ददर्श
 

 
1
 

 
भैरवाचार्यस्तु दूरादेव राजानं दृष्ट्वा प्रत्युज्जगाम । समर्पित-

श्रीफलोपायनश्च गम्भीरया गिरा स्वस्तिशब्दमकरोत् । नरपति-
। नरपति-
रपि दूरावनतः प्रणाममभिनवं चकार । आचार्योऽपि 'आ-

गच्छ । अत्रोपविश' इति शार्दूलचर्मात्मीयमदर्शयत्
 

 
उपदर्शितप्रश्रयस्तु राजा, मधुरसमयीं प्रवर्तयन्वाचं व्या-

जहार--"भगवन्, नार्हसि माम् अन्यनृपस्खलितैः खलीकर्तुम्

अभूमिरयमुपचाराणाम् । अलमतियन्त्रणया। दूरस्थितोऽपि

मनोरथशिष्योऽयं जनो भवताम् । माननीयं च गुरुवन्नोल्लङ्घन-

मर्हति गुरोरासनम् । आसतां च भवन्त एवात्र" इति व्याहृत्य

परिजनोपनीते वाससि निषसाद । भैरवाचार्योऽपि प्रीत्या अन-

तिक्रमणीयं नृपवचनमनुवर्तमानः पूर्ववत्तदेव व्याघ्राजिनम-

भजत
 

[Commentary]
अहमेवेश्वर इति आहंकारिकम्" इति अष्टपुष्पिकां शंकरो व्याचष्टे । "अहिंसा

प्रथमं पुष्पं पुष्पमिन्द्रियनिग्रहः । सर्वभूतदया पुष्पं क्षमा पुष्पं विशेषतः

ज्ञानं पुष्पं तपः पुष्पं ध्यानं पुष्पं तथैव च । सत्यमष्टविधं पुष्पं विष्णोः प्रीति-

करं भवेत्" इत्येवम् अष्टपुष्पिकामपरे व्याचक्षते । श्रीफलं बिल्वफलम्
न्

यन्त्रणा निर्बन्धः