This page has not been fully proofread.

तृतीयोच्छ्वासः ।
 
विद्युत्कपिलेन आत्मतेजसा शिष्यलोकं लिम्पन्तम्, अबहुभाषिणं
मन्दहासिनं सर्वोपकारिणं कुमारब्रह्मचारिणम्, धाम धर्मस्य,
पत्तनं पूततायाः, शालां शीलस्य, क्षेत्रं क्षमायाः, आकरं
करुणायाः, समाजं सौजन्यस्य, भगवन्तं साक्षादिव विरूपाक्षं
भैरवाचार्य ददर्श ॥
 

 
1
 
भैरवाचार्यस्तु दूरादेव राजानं दृष्ट्वा प्रत्युजगाम । समर्पित-
श्रीफलोपायनश्च गम्भीरया गिरा स्वस्तिशब्दमकरोत् । नरपति-
रपि दूरावनतः प्रणाममभिनवं चकार । आचार्योऽपि 'आ-
गच्छ । अत्रोपविश' इति शार्दूलचर्मात्मीयमदर्शयत् ॥
 
उपदर्शितप्रश्रयस्तु राजा, मधुरसमयीं प्रवर्तयन्वाचं व्या-
जहार — "भगवन्, नाईसि माम् अन्यनृपस्खलितैः खलीकर्तुम् ।
अभूमिरयमुपचाराणाम् । अलमतियन्त्रणया । । दूरस्थितोऽपि
मनोरथशिष्योऽयं जनो भवताम् । माननीयं च गुरुवन्नोल्लङ्घन-
मर्हति गुरोरासनम् । आसतां च भवन्त एवात्र" इति व्याहृत्य
परिजनोपनीते वाससि निषसाद । भैरवाचार्योऽपि प्रीत्या अन-
तिक्रमणीयं नृपवचनमनुवर्तमानः पूर्ववत्तदेव व्याघ्राजिनम-
भजत ॥
 
अहमेवेश्वर इति आहंकारिकम्" इति अष्टपुष्पिकां शंकरो व्याचष्टे । "अहिंसा
प्रथमं पुष्पं पुष्पमिन्द्रियनिग्रहः । सर्वभूतदया पुष्पं क्षमा पुष्पं विशेषतः ॥
ज्ञानं पुष्पं तपः पुष्पं ध्यानं पुष्पं तथैव च । सत्यमष्टविधं पुष्पं विष्णोः प्रीति-
करं भवेत्" इत्येवम् अष्टपुष्पिकामपरे व्याचक्षते । श्रीफलं बिल्वफलम् ।
न्यन्त्रणा निर्बन्धः ॥