This page has not been fully proofread.

हर्षचरितसंग्रहे
 
"
 
शिवभक्तिरियं नो मनोरथदुर्लभानि फलति फलानि । येनैवमस्मासु
श्रीयते भगवान्भुवनगुरुभैरवाचार्य: । वो द्रष्टास्मि भगवन्तम्
इत्युक्त्वा च मस्करिणं व्यसर्जयत् । अनया च वार्तया परां
मुदमवाप ॥
 
30
 
अपरेशुश्च प्रातरेवोत्थाय वाजिनमधिरुह्य समुच्छ्रितश्वेता-
तपत्रः समुहूयमानधवलचामरयुगलः कतिपयैरेव राजपुत्रैः परि-
वृतः, भैरवाचार्य द्रष्टुं प्रतस्थे । गत्वा च किंचिदन्तरं तदीयमेव
अभिमुखम् आपतन्तम् अन्यतमं शिष्यम् अद्राक्षीत् । अप्राक्षीच्च-
'क भगवानास्ते' इति । सोऽकथयत् – "अस्य जीर्णमातृगृहस्यो-
त्तरेण बिल्ववाटिकामध्यास्ते" इति । गत्वा च तं प्रदेशमव-
ततार । प्रविवेश च बिल्ववाटिकाम् ॥
 
>
 
अथ महतः कार्पटिकवृन्दस्य मध्ये प्रातरेव स्नातम्,
दत्ताष्टपुष्पिकम् अनुष्ठिताभिकार्यम्, व्याघ्रचर्मण्युपविष्टम्,
 
प्रतस्थे "समवप्रविभ्यः स्थ: " इत्यात्मनेपदम् ।
इत्यात्मनेपदम् । "एनपा द्वितीया
इत्यत्र एनपेति योगविभागमाश्रित्य एनबन्तयोगे षष्टयपि भवतीति वैयाकरणाः ।
अतः मातृगृहस्य उत्तरेणेत्यत्र षष्ठी । "ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी
तथा । वाराही चैव माहेन्द्री चामुण्डा सप्त मातरः ॥ " वाटिकाम् अध्यास्ते
'अधिशीस्थासां कर्म " कपटैः जीर्णवस्त्रैः चरन्ति इति कर्पटं तत्त्वं
विदन्ति इति वा कार्पटिकाः भिक्षवः । अष्टानां पुष्पाणां समाहारः अष्टपुष्पी,
सैव अष्टपुष्पिका । तानि च पुष्पाणि
लोचनायामेवं व्याख्यैव ज्यायसी ।
अर्ध्यस्नानादिकं रसप्रधानम् आप्यम्,
 
चम्पकमल्लिकादीनि । पूर्वोत्तरग्रन्थपर्या-
( चन्दन) प्रभृति गन्धप्रधानं पार्थिवम्,
प्रदीपाभरणप्रभादि रूपप्रधानं तैजसम्
अनुलेखनप्रभृति स्पर्शप्रधानं वायवीयम् सुषिरातोद्यगीतादिकं शब्दप्रधानम्
आकाशीयम् अनुध्यानं मानसम् अस्ति सर्वत्रैवेश्वर इति निश्चयो बौद्धमू,
 
,
 
,
 
39