2023-03-20 00:00:49 by ambuda-bot
This page has not been fully proofread.
[Hanuman Nātakam]
इतिहास
ITIHĀSA
मुखाग्रविद्या स रावणः कालवशाद्विनष्टः ४८
इह खलु विषमः पुराकृतानां
भवति हि जन्तुषु कर्मणां विपाकः ।
शिवशिरसि शिरांसि यानि रेजुः
शिव शिव तानि लुठन्ति गृध्रपादैः ४६
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
ततो लक्ष्मणवायुपुत्रौ विमाने जानकीमारोप्य
सत्वरमानीतवन्तौ ॥
(जानकी ससंभ्रममुत्थाय लज्जां नाटयति ) रामः--
जनकतनयां हृत्वा रागी हते दशकन्धरे ।
तदनु विरहज्वालाजालाकुलीकृतविग्रहः ।
रघुपरिवृढो नाधो नोर्ध्वं न तिर्यगवेक्षते
मुकुलितट्टगम्भोजद्वन्द्वः समाहितवत्स्थितः ५०
(साश्रु स्ववंश्यपरिजनलज्जया च) हनूमान्--मातर्जानकि !
चापालिङ्गनभंगुराङ्गमदनन्यस्तैकहस्ताम्बुजं
मध्ये मुष्टिनिविष्टपञ्चकशरं बिभ्राणमन्यत्करे ।
वीरश्रीनवरक्षतैरिव नवैर्बाणव्रणैरङ्कितं
वीरं राममवस्थितं प्रणम तं प्रोन्मथ्य लंकाभटम् ५१
जानकी--स्वगतम्
तापच्छेदसुधाकरस्तनुमतां क्रोधानलाम्भोधरः
सारासारविवेकशोकभवनं हर्षस्य बीजाश्रयः ।
कालव्यालविपस्य गारुडमणिधैर्यद्रुमो रामभूः
कैवल्यप्रतिभूर्घटेत सुकृतैरामस्य सत्संगमः ५२
रामः उपसृत्य--साशंकम्--
हे महान्तो जनाः यद्यपि प्रिया पतिव्रता तथापि चिरं
परमन्दिरस्था दिव्यमन्तरेण कथं मां स्प्रष्टुमर्हति ।
इत्याकर्ण्य रामवाक्यादाकाशादवतरन्ति स्म
98