This page has not been fully proofread.

MAHARISHI UNIVERSITY OF MANAGEMENT
 
VEDIC LITERATURE COLLECTION
 
श्रीहनुमन्नाटकम्
 
ŚRĪ HANUMAN NĀTAKAM
 
कुर्वन्ती झटिति त्रिकूटाचलादुत्पत्य समरभूमौ महा-
निद्रां गतस्य निजप्राणनाथस्य लंकापतेश्चरणकमल-
योर्निपत्य ॥
 
भिन्नैरावतबन्धुसिन्धुरशिरः संपातिभिर्मौक्तिकैः
 
शश्वद्विश्वजयप्रशस्तिरचनावर्णावलीशिल्पिने ।
नाकान्तः पुरिकाकपोलविलसत्काश्मीरपत्राङ्कुर-
[ Hanuman Nātakam]
 
श्रीविन्यासविनाशभीषणभुजस्तम्भाय
 
तुभ्यं नमः ४३
हा प्राणनाथ लंकेश !
 
भूयिष्ठानि मुखानि चुम्बति भुजैर्भूयोभिरालिङ्गते
चारित्रव्रतदेवतापि भवता कान्तेन मन्दोदरी ।
हा लम्बोदरकुम्भमौक्तिकमणिस्तोमैर्ममैकावली-
शिल्पे वागधमर्णिकस्य भवतो लंकेन्द्रनिद्रारसः ४४
एकेनैव समुद्धृतो हरगिरिभ्यां त्रिलोकी जिता
यस्याष्टादशभिर्भुजैरवसरः शस्त्रस्य नासादितः ।
सोप्येनं द्विभुजं मनुष्यमहह क्रव्यादवीरो रिपुं
प्राप्य व्यर्थभुजो रणे विनिहतो देवाये तस्मै नमः ४५
जातिर्ब्रह्मकुलेऽग्रजो धनपतिर्यः कुम्भकर्णोऽनुजः
 
पुत्रः शक्रजयी स्वयं दशशिराः पूर्णा भुजा विंशतिः ।
दैत्याः कामचरा रथश्च विजयी पारेसमुद्रं गृहं
सर्वं निष्फलितं तथैव विधिना दैवे बले दुर्बले ४६
कालेन विश्वविजयी दशकन्धरोऽभू-
द्भर्गाचलोद्धरणचञ्चलकुण्डलाग्रः ।
संस्कारमग्निदहनाय स एष काल-
श्चाज्ञां विना रघुपतेः प्लवगैर्निरुद्धः ४७
दुर्गं त्रिकूटः परिखा समुद्रो रक्षांसि
 
योधा धनदश्च वित्तम् । संजीविनी यस्य
 
97