This page has not been fully proofread.

[Hanuman Nātakam]
 
इतिहास
 
ITIHĀSA
 
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
 
रे रावणास्तमुपयातु सह त्वयार्कः
श्रीराघवे समरमूर्ध्नि कृतप्रतिज्ञे ।
मन्दोदरी जनकजाऽस्तनगावलम्बि-
न्यर्के चकोरकवधूरिव चक्रवाकी ३८
रामः (रावणम्प्रति ) --
एकस्मिन्विनिपातितेऽपि शिरसि क्रोधोपशान्तिः कुतः
किन्तु स्वानुनयाय मूर्धनिधनं दृष्टं न यत्रारिणा ।
त्वत्तो मूर्धबहुत्वतः फलमिदं सम्यङ् मया लभ्यते
छिन्नं छिन्नमवेक्ष्य राक्षसपते स्वं दुर्नयं ज्ञास्यसि ३६
 
(तद्रुततरं श्रीरामबाणादिताडनव्यग्रो रावणः ) --
धनुर्निस्त्रिंशादिप्रहरणगलच्छेदकुपितो
दशास्यः स्वान्मूर्ध्नो रघुपतिशरव्रातदलितान् ।
करैरेकैरेकैर्नभसि भृशमादाय युगपत्
क्षिपन्नान्यैरन्यैश्चपलयति दोर्विंशतिमपि ४०
रामः(सावष्टम्भम्)--
 
कल्पान्ते यत्कृतान्तैरिव वरसमरप्राङ्गणे रामचन्द्रो
बाणैरुत्तीर्णशाणैर्नवभिरपि दशग्रीवमूर्ध्नो नवैव ।
चिच्छेदालोक्य भूयः स पुनरपि नवान्विस्मितः सन्मुहूर्तं
विश्रम्यागस्त्यदत्तं तदनु रिपुवधायाददे ब्राह्ममस्त्रम् ४१
पैतामहं रघुपतिः समरेऽतिकोपा-
द्वाणं मुमोच हृदये दशकन्धरस्य ।
भित्त्वा स तद्धृदयशोणितशोणगात्रः
प्राणान्विवेश धरणीतलमस्य नीत्वा ४२
 
मन्दोदरी सकलसुन्दरसुंदरीभिः परिवृता गलदविर-
लनेत्रजलप्रवाहैः सीतापतेर्विरहानलेन सह लंकापतेः
प्रतापानलं निर्वापयन्ती हाहाकारं घोरफूत्कारैः
 
96