This page has not been fully proofread.

MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
 
श्रीहनुमन्नाटकम्
 
ŚRĪ HANUMAN NĀTAKAM
 
[Hanuman Nātakam]
 
सुन्दरीपरिवृता लंकाचलशिखरमारुह्य
 
पश्यति । रुद्रोपि
 
समुद्रमध्ये एकेन चरणेनोपस्थितो युद्धं पश्यति ।
देवाः सर्वे विमानाधिरूढा नभोमण्डलगता युद्धं पश्यतिस्म ॥
रामः--संहारभैरव इव क्रोधं नाटयति ।
 
रे रे निशाचरपते त्वरितं गृहाण बाणासनं त्रिदशदर्पहरं शरं च ।
निर्वापयामि विरहाग्निममुं प्रियाया मन्दोदरीतरलनेत्रजलप्रवाहैः
 
३३
 
( इति बाणान् स्पृशति) मन्दोदरी ( सभयम्) --
उत्पादयन्किमपि कौणपकोटिमन्त-
स्तेजोहुताशनसमिन्धनसामिधेनीम् ।
हस्ताढकीमकृत बालतरः पृषत्कै -
रीषज्जयं स्फुटमनेन दशाननोऽपि ३४
(रामभुजदण्डौ)
 
आकृष्टे युधि कार्मुके रघुपतेर्वामोऽब्रवीद्दक्षिणं
दानादानसुभोजनेषु पुरतो युक्तं किमित्थं तव ।
वामान्यः पुनरब्रवीन्मम न भीः प्रष्टुं जगस्त्वामिनं
छेत्तुं रावणवक्त्रपंक्तिमिति यो दद्यात्स वो मंगलम् ३५
कुशिकसुतसपर्यादृष्टदिव्यास्त्रमन्त्रो
भृगुपतिसहयोद्धा वीरभोगीनबाहुः ।
दिनकरकुलकेतुः कौतुकोत्तानचक्षु-
र्बहुमतरिपुकर्मा कौतुकी रामदेवः ३६
यद्रावणो बहुभिरेव भुजैः करोति
तद्राघवः प्रतिकरोति भुजद्वयेन ।
कर्मद्वयं यदपि तुल्यफलं तथापि
रक्षः पतेर्दशगुणं नरवीरतुल्यम् ३७
तत्र मन्दोदरी जानकी च--
95