2023-03-20 00:00:48 by ambuda-bot
This page has not been fully proofread.
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
श्रीहनुमन्नाटकम्
ŚRĪ HANUMAN NĀTAKAM
——
रावणः
शुचि-
स्त्रीमात्रं ननु ताडका मुनिसुतो रामः स विप्रः
र्मारीचो मृग एव भीतिभवनं वाली पुनर्वानरः ।
भो काकुत्स्थ विकत्थसे वद रणे वीरस्त्वया को जितो
दोर्गर्वस्तु तथापि ते यदि पुनः कोदण्डमारोपय २१
अत्रान्तरेऽङ्गदः-
वन्द्यास्ते न विचारणीयचरितास्तिष्ठन्तु हुं वर्ततां
सुन्दस्त्रीदमनेप्यकुण्ठयशसो लोके महान्तो हि ते ।
यानि त्रीणि कुतो मुखान्यपि पराण्यासन्वरायोधने
यद्वा कौशलमिन्द्रसूनुनिधने तत्राप्यभिज्ञो जनः २२
[Hanuman Nātakam]
--
रावणः
शंभोः पर्वतकन्दुकेन महती क्रीडा कृता येन तं
रे रे मानव राम मा स्मर भवं देवेश्वरं रावणम् ।
ज्याघोषं कुरु ताडकान्तमसुराणामन्तकं संयुगे
यश्चानीतिसमग्रधीरकुटिलः शाखामृगाणां पतिः २३
रामस्तथापि तं रावणं न जघान । लज्जावनम्रव-
दनाम्बुजः सन् मनाक् स्थितः रावणः
(विहस्य) रे रे मानव राम !
यो मया निहतो घोरे समरे तव पूर्वजः ।
अनरण्यः किमद्य त्वां व्यथयत्यथ लज्जितः २४
रामः--(निः शंकम्) रे रे राक्षसाधम पश्य ?
न दूये नः पूर्वं नृपतिमनरण्यं यदवधी-
र्जयो वा मृत्युर्वा युधि भुजभृतां कः परिभवः ।
जितं मन्ये कारागृहविनिहतं हैहयपतेः
पुलस्त्यो यद्भिक्षामकृत कृपणं तद्व्यथयति २५
यो रामो न जघान वक्षसि रणे तं रावणं सायकैः
93