2023-03-20 00:00:48 by ambuda-bot
This page has not been fully proofread.
[Hanuman Nātakam]
इतिहास
ITIHĀSA
स्थितश्चञ्चद्वाष्पाकलितमृगतृष्णान्वितगिरिः ।
तदैवं देवानां मतिरजनि दिमण्डलजुषां
धनुःशृङ्गे भृङ्गस्तदुपरि गिरिस्तत्र जलधिः १४
साश्चर्य्यं तत्र रामे सपटु भटमुखे सव्यथं देवतौर्ये
साशंकं रामयुद्धे कपिषु सविनयं लक्ष्मणे साश्रुपूरम् ।
सासूयं भ्रातृकृत्ये सभयमनिलजे सत्रपं चात्मकृत्ये
क्षिप्तं तद्वक्त्रचक्रं रजनिचरपतेर्भिन्नभावं बभूव १५
बद्ध्वा तूणान्दशोच्चैर्मघवहयसटावेणिबन्धेनवामै-
र्दोर्भिश्चापान्विधुन्वन्दशदश च शरान्दक्षिणैराददानः ।
क्ष्वेडन्क्रीडन्प्रकुप्यन्प्रसरदभिभवद्गर्जितातर्जितौघैः
शश्वत्खिद्यन्मुखश्रीरवतरति रणप्राङ्गणे राक्षसेन्द्रः १६
रामरावणयोः-
रणाङ्गणे कुण्डलिनो युवानः परस्परं सायकभिन्नदेहाः ।
कुचाग्रलग्ना इव कामिनीनां कुम्भाग्रलग्नाः सुषुपुर्गजानाम् १७
गगनं गगनाकारं सागरः सागरोपमः ।
रामरावणयोर्युद्धं रामरावणयोरिव १८
तत्र सारो नाम राक्षसस्तुमुलयुद्धे--
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
*-=
श्राश्वारूढस्तु यावद्व्रजति न शिबिरं वाजिनः पूर्वमर्धं
धावन्तं खण्डितस्य स्वमरिकुलबलात्पादयुग्मेन धीरः ।
सारः क्रव्यादवीरः शिरसि करतलोत्थापितेनाङ्गदेन
क्रुद्धेनाताडितो द्राक् शिव शिव समरे पश्चिमार्द्धेन तावत् १६
अङ्गदः (वा) रावणः --
यावानब्धिः कलशशिशुना तावता किं च पीतः
तुल्याकारान्प्रहरति हरिः किं खगानद्रितुङ्गान् ।
तत्रागम्याः प्रथितवपुषः सन्तु तिग्मस्वभावा-
स्तेषां ग्रासग्रहणरभसं राम ते नामधेयम् २०
92