This page has not been fully proofread.

MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
 
श्रीहनुमन्नाटकम्
 
ŚRĪ HANUMAN NĀTAKAM
 
[Hanuman Nātakam]
 
जलमध्ये रुद्रपादाद्रिशिखरगतो रामरावणयो-
र्युद्धं निरीक्ष्यमाणो रुद्रः कपिभटैः संवेष्टितां
लंकां विलोक्य ॥
 
मरुद्रुद्रादित्यौ शतमुखमुखास्ते क्रतुभुजः
पुरद्वारे यस्याः सभयमुपसर्पन्त्यनुदिनम् ।
प्रकोपव्याधेर्याधरतटपुटैर्वानरभटैः
 
समाक्रान्ता सेयं शिव शिव दशग्रीवनगरी ६
अस्त्रं यत्प्लवगाधिपेन विहितं पौलस्त्यवक्षस्तटे
संघट्टानलदत्तदावविपदः सीदन्ति भूमीरुहाः ।
उत्पाट्य प्रहिताः स्वशैलशिखरे लंकेन्द्रहस्तावली -
पिष्टोऽयं निजकुण्डनिर्झरजलैर्जम्बालपिण्डायते १०
तथैतेनोद्धृत्य स्फटिकशिखरी सोपि विदधे
समन्तादामूलत्रुटितवसुधाबन्धविधुतः ।
मुं येनाद्यापि त्रिपुरहरनृत्यव्यतिकरः
पुरस्तादन्येषामपि शिखरिणामुल्लसयति ११
 
रावणः (सक्रोधम्) रथारोहणं नाटयति--
भेरीमर्दलशंखतालनिकरस्वानोल्लसत्काहलो
 
निः साणस्वनपूर्णकर्णकुहरो निर्यन्नगर्या बभौ ।
युद्धार्थं दशकन्धरो रथगतो माणिक्यमौलिर्यशो-
दीपादीपितमस्तको जनकजारामो विधेः कर्मणा १२
नीचैर्ववौ परिमितः पवनो वनेषु
 
मन्दीचकार तरणिः खरतां करेषु ।
रक्षः पतिं गगनमाप्तमवेक्ष्य साक्षा-
न्नद्यो ययुः स्थगिततुंगतरङ्गभंगाः १३
आकाशे--
यदा नीलो लंकाधिपसुभटकोदण्डशिखरे
 
91