2023-03-20 00:00:48 by ambuda-bot
This page has not been fully proofread.
[Hanuman Nātakam]
इतिहास
ITIHĀSA
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
रामाय प्रतिपक्षवृक्षशिखिने
दास्यामि वा मैथिलीं
युद्धे राघवसायकैर्विनिहतः स्वर्गं गमिष्यामि वा ।
नीतिज्ञे कथयस्व देवि कतमः पक्षो गृहीतस्त्वया
सुश्राव्यं पदमस्मदीयमगमन्मन्मात्रशेषं बलम् ४
मन्दोदरी--(विहस्य)
अयि प्राणनाथ लंकेश्वर !
दृष्ट्वा दैन्यं भगिन्याः श्रुतखरनिधनं मातुलस्यापि नाशं
तालानां भेदनं यत्कपिवरदहनं बद्धसुग्रीवसख्यम् ।
कर्माण्युद्यानभङ्गे जलनिधितरणं यो न जातस्तदानीं
सोऽयं नष्टे कुलेऽस्मिन्कथमिव गमितो जायते ते विवेकः ५
रावणः--(सापत्रपं साभ्यसूयम्)
धिग्धिक्शक्रजितं प्रबोधितवता किं कुम्भकर्णेन वा
स्वर्गग्रामठिकाविलुण्ठनपरैः पीनैः किमेभिर्भुजैः ।
धिक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः
सोऽप्यत्रैव निहन्ति राक्षसभटाञ्जीवत्यहो रावणः ६
मन्दोदरी--(सकरुणम् )
शोकं लंकेश मागाः कुरु चिरमपुनर्मा विगूढोपगूढं
देवाज्ञां देहि योद्धुं समरमवतराम्यस्मि सुक्षत्रिया यत् ॥
रावणो विदीर्यमाणहृदयः--
मैवं कान्ते स्वकान्ते तरुणय करुणां प्राणरङ्कः किमेको
लंकां सन्त्यज्य शंकां शिव शिव समरायोद्यतो राक्षसेन्द्रः ७
अथ रामाज्ञया वानरभटाः-
उद्यद्दिक्पालकोलाहलबहलमदावग्रहोग्राभिरक्षणां
ताराभिर्दीप्यमानं दिशि विदिशि दशग्रीवमुद्ग्रीवयन्तः
एते निः शेषसेतुग्रथनसमधिकैः शस्त्रिणः शैलपादै -
रुद्दामानः कपीन्द्रा रजनिचरपुरीमुत्तरेण प्लवन्ते ८
90