2023-03-20 00:00:33 by ambuda-bot
This page has not been fully proofread.
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
श्रीहनुमन्नाटकम्
ŚRĪ HANUMAN NĀTAKAM
[Hanuman Nātakam]
वीरं वीरं वा कलयतु जनो मामयमयं
मया बद्धो दुष्टद्विजदमनदीक्षापरिकरः ४६
भूमात्रं कियदेतदर्णवमितं तन्निर्जितं हार्यते
यद्वीरेण भवादृशेन ददता त्रिः सप्तकृत्वो जयम्
डिम्भोऽयं नवबाहुरीदृशमिदं घोरं च वीरव्रतं
तत्क्रोधाद्विरम प्रसीद भगवञ्जात्यैव पूज्योऽसि नः ४७
द्विः शरं नाभिसंधत्ते द्विः स्थापयति नाश्रितान्
द्विर्ददाति न चार्थिभ्यो रामो द्विर्नाभिभाषते ४८
रामनाट्यवर्णनम्
रामस्तदादाय धनुः सहेलं बाणं गुणे योज्य यदा चकर्ष
भाति स्म साक्षात्मकरध्वजः स्वर्गतिं प्रचिच्छेद च भार्गवस्य
४६
तदा सीतानाट्यम्
तच्चापमाकर्षति ताटकारावाकर्णमाकर्णविशालनेत्रा
सासूयमैक्षिष्ट विदेहजासौ कन्यां किमन्यां परिनेष्यतीति ५०
भार्गवः सानुनयम्
यः कार्त्तवीर्यस्य भुजासहस्रं चिच्छेद वीरो युधि जामदग्न्यः
स सायके रामकराधिरूढे ब्राह्मण्यदैन्यप्रणयी बभूव ५१
धावद्धूर्जटिधर्मपुत्रपरशुक्षुण्णाखिलक्षत्रिय-
श्रेणीशोणितपिच्छिला वसुमती कोऽस्यामधास्यत्पदम्
त्रैलोक्याभयदानदक्षिणभुजावष्टम्भदिव्योदयो
देवोऽयं दिनकृत्कुलैकतिलको न प्राभविष्यद्यदि ५२
रामः पश्चाज्जामदग्न्यचरणकमलयोर्निपत्य--
उत्पत्तिर्जमदग्नितः स भगवान्देवः पिनाकी गुरु-
र्वीर्यं यत्तु नयद्गिरामनुपथं व्यक्तं हि तत्कर्मभिः ।
त्यागः सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधिः
9