This page has not been fully proofread.

MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
 
श्रीहनुमन्नाटकम्
 
ŚRĪ HANUMAN NĀTAKAM
 
लोहिताक्षः--देव!
 
अधाक्षीन्नो लंकामयमयमुदन्वन्तमतर-
द्विशल्यां सौमित्रेरयमुपनिनायौषधिवराम् ॥
इति स्मारंस्मारं त्वदरिनगरीभित्तिलिखितं
हनूमन्तं दन्तैर्दशति कुपितो राक्षसगणः १
 
रावणः
 
रामः -- (विहस्य) किमर्थमागतोऽसि ।
लोहिताक्षः--
देव भृगुपतिं निर्जित्य गृहीतं हरप्रसादपरशुं
रावणाय प्रयच्छ ततस्तव सीतां समर्पयिष्यति लंकेश्वरः ॥
रामः (विहस्य) दूत पश्य ।
पौलस्त्यप्रणयेन तावकमतिं स्मृत्वा मनो मोदते
देयो नैष हरप्रसादपरशुस्तेनाधिकं ताम्यति ।
यद्वाच्यः स दशाननो मम गिरा दत्ता द्विजेभ्यो मही
तुभ्यं ब्रूहि रसातलं बलभिदे निर्जित्य किं दीयताम् २
अथ देवराज इन्द्रः रामाय शत्रुंजयं रथवरं वितरतिस्म ।
रामोपि हनूमन्तं रथध्वजाग्रमारोप्य स्वयं रथारोहणं नाट-
यति--तथाविधं तमालोक्य लोहिताक्षो निष्क्रान्तः ॥
लंकाशिखरस्थो रावणः -- अये लोहिताक्ष !
कोसौ दाशरथेर्ध्वजे वर्तते ॥
लोहिताक्षः--देव !
 
हेलोल्लंघितवारिधिर्जनकजाविश्लेषशुष्यन्मनः-
कौसल्यासुतदैन्यपाटनपटुर्ग्रस्तांशुभूमण्डलः ।
 
निर्दग्धाखिलराक्षसेन्द्रनगरः सौमित्रिसंजीवना--
योत्खातौषधिपर्वतश्च मरुतः पुत्रो ध्वजे वर्तते ३
 
[Hanuman Nātakam]
 
89
 
.-=
 
(सत्वरं मन्दोदरीमन्दिरं प्रविश्य) अयि मन्दोदरि !