This page has not been fully proofread.

[Hanuman Nātakam]
 
इतिहास
 
ITIHĀSA
 
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
 
लक्ष्मणः--
आलेपितो हनुमता गिरिजौषधीभि-
मूर्च्छा विहाय सशरं धनुराददानः ।
रामारविन्दतरणिर्धरणीधरात्मा
लंकापतेः कुपितकाल इवोपतस्थौ ३७
क्रोधारुणः प्रोत्फुल्लत्खदिराङ्गारनेत्रो रामः धनुर्गुणट-
णत्कारमभिनीय-(सहर्षं सबाष्पं सपुलकं च लक्ष्मणं
गाढमालिंग्य ) हा लक्ष्मण प्रौढशक्तिभेदरवेदं जहि
मम हृदयपर्यङ्के हा मेघनादकुलकमलिनीप्रालेयवर्ष
वत्स एतावतीं वेदनां न वेत्सि ॥
लक्ष्मणः--आर्य !
 
ईषन्मात्रमहं वेद्मि स्फुटं यो वेत्ति राघवः ।
वेदना राघवेन्द्रस्य केवलं व्रणिनो वयम् ३८
 
इति श्रीहनुमन्नाटके लक्ष्मणशक्तिभेदो नाम त्रयोदशोऽङ्कः १३
 
चतुर्दशोऽङ्कः
 
ततः प्रातःकाले रावणो लोहिताक्षं दूतमाहूय समादिशति ।
रे लोहिताक्ष वानरवाहिनीं गत्वा राममिति ब्रूहि ।
ये राम जामदग्न्यं निर्जित्य यस्त्वया
हरप्रसादपरशुर्गृहीतस्तं रावणाय प्रयच्छ
ततस्तव सीतां प्रयच्छामि ।
लोहिताक्षः--
यदाज्ञापयति देवः । ( इति गगन मुत्पत्य
रामशिबिरे ततो रामं नमस्कृत्योपस्थितः ।)
रामस्तं रावणदूतं ज्ञात्वा पृच्छति अये लोहिताक्ष ! किं
करोति राक्षसगणः ।
 
88