2023-03-20 00:00:47 by ambuda-bot
This page has not been fully proofread.
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
श्रीहनुमन्नाटकम्
ŚRĪ HANUMAN NĀTAKAM
[Hanuman Nātakam]
द्रोणं दोष्णा दधानः कटकनिकटतामागतोऽप्यर्धरात्रे ।
दिग्भागोत्तालदृष्टिस्तरलतरसरस्तीरमास्थाय वीर-
स्तारं धीमानरोदीत्तदनु सह मुदा वाहिनीमाजगाम ३१
( पर्वतोद्योतनेन सूर्य्योदयभ्रमात् सरोवरस्थं विकसित
कमलमालोक्य प्रातराशङ्कया लज्जावानरोदीत् । तदनु
दिग्भागानवलोक्य सूर्य्योदयमपश्यन्मुदं प्राप्य हा ज्ञातं
पर्वतोद्योतनेन सूर्य्योदयभ्रमात्कमलविकास इति हर्षेण
सह स्ववाहिनीं जगाम )
हत्वा मायामहर्षीव्रजनिचरवरां कन्धकालीमुदग्रां
ग्राहीरूपां प्रमथ्य प्रबलमथ बलं राक्षसान्मर्दयित्वा ।
जित्वा गन्धर्वकोटिं झटिति ततमणिज्वालमादाय शैलं
प्राप्तः श्रीमान्हनूमान्पुनरपि तरसा नन्दितस्तत्पुरस्तात् ३२
रामसुग्रीवादयः सर्वे (सहर्षम्)
यो मैन्दद्विविदादिवानरचमूचक्रस्य रक्षाकरः
संहर्ता रणभङ्गभैरवरवोल्लासस्य लंकापतेः ।
सीतातंकमहान्धकारहरणप्रद्योतनोऽयं हरिः
संप्राप्तः पवनात्मजः पटुमहः श्रीकण्ठवैकुण्ठयोः ३३
कपिकटकभटानां गण्डगोपालनामा
समरशिरसि धीरो योञ्जनायास्तनूजः ।
दिशतु विशदलक्ष्मीं लक्ष्मणस्यात्मनः श्री-
चरणनलिननत्या नित्यसत्योदयश्रीः ३४
रामः--एकैकस्योपकारस्य प्राणान्दास्यामि ते कपे ।
प्रत्यक्षं क्रियमाणस्य शेषस्य ऋणिनो वयम् ३५
(सदयम्)
अङ्गेष्वेव जरां यातु यत्त्वयोपकृतं कपे ।
भवान्प्रत्युपकारार्थमापत्सु लभतां पदम् ३६
87