2023-03-20 00:00:47 by ambuda-bot
This page has not been fully proofread.
[Hanuman Nātakam]
इतिहास
ITIHĀSA
तत्र वशिष्ठभरतादयः सर्वे-- ( सविस्मयम् )
सर्वे निशम्य सहलक्ष्मणरामनाम
तत्रोपगम्य हनुमत्पदयोर्निपेतुः ।
वृत्तं च तस्य वचनादपनीय शल्यं
मूर्च्छा जहार स मुनिर्गिरिजौषधीभिः २६
हनुमान्--( साभ्यसूयम् )
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
जिज्ञासया भरतबाहुपराक्रमस्य
रामस्तु तस्य युधि लक्ष्मणशक्तिभेदे ।
श्रान्तोऽहमित्यथ गिरिं नय तं कुमार-
वाक्यं जगाद हौन्मान्भरतं सरोषः २७
'भरतः रामलक्ष्मणयोः समरसंकटमुपलभ्य गगन-
मण्डलभ्रान्तनिजभुजाटोपनाय दोधूयमानधनुर्गुण-
टणत्कारमभिनीय )
( अत्रान्तरे स्वकटके ) --रामः-
वत्सोत्तिष्ठ धनुर्गृहाण रिपवः सैन्यं विनिघ्नन्ति नः
किं शेषेऽद्य निराकृताः किमरयः प्रत्याहृता वा प्रिया ।
भ्रातर्देहि वचो विभेति हृदयं भ्रातः प्रिये छिन्धि मां
कैकेयि प्रियसाहसे सुतवधान्मातः कृतार्था भव २८
तत्रैव-- श्रुत्वेति तस्य वचनं भरतः शराग्रे
साद्रिं कपिं समधिरोप्य गुणे नियुज्य ।
मोक्तुं दधे झटिति कुंडलिनं चकार
तुष्टाव तं परमविस्मयमागतः सः २६
हनूमान्--
उत्तीर्य बाणात्कुशलं गृहीत्वा सम्पूज्य बाहुं भरतस्य वाग्भिः ।
मनो दरिद्रस्य यथा दिगन्तं तथा हनूमाञ्छिबिरं जगाम ३०
अद्रिं रुद्रावतारः प्रलयसमुदितद्वादशार्कानुकारं
86