This page has not been fully proofread.

MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
 
श्रीहनुमन्नाटकम्
 
ŚRĪ HANUMAN NĀTAKAM
 
[Hanuman Nātakam]
 
रामः--( सहर्षम् ) तथा करोतु वीरः ! हनूमान्--
ध्यात्वात्मानं प्रणम्य प्रभुमवनिसुतावल्लभं तस्य वाक्यं
 
नीत्वाऽयोध्यां गमिष्यस्यखिलकुशलतामानयिष्यस्यपीति ।
चंडोड्डीनं चकार द्रुतमथ जननीलक्ष्मणस्योपलभ्य
 
स्वप्ने व्यालः समूलं कवलयति भुजं वाममुत्तस्थुषीति २१
प्रोवाच कोसलसुतापुरतोद्भुतं सा
स्वप्नं च सा मुनिवशिष्ठपुरोहितस्य ।
पार्श्वे नियोज्य सशरं धनुरादधानं
शान्तिं चकार भरतं मुनिराज्यहोमैः २२
 
( तत्र द्रोणाद्रिशिखरे ) हनूमान्--
दृष्ट्वा सर्वास्तुहिनकिरणोद्यत्प्रभास्तत्र शैले
वल्लीरत्नान्यमरखदिराङ्गारभास्वन्ति वीरः ।
भ्रान्त्वा दोर्भ्यां गिरिमुदहरन्नोत्पपातैष तातं
सस्मारायं द्रुतमुपगतस्तद्वलेनोजहार २३
 
तत्रायोध्यायां शान्तिमण्डपे कुण्डसमीपस्थौ भरतवशिष्ठौ --
हुत्वा श्रीखण्डकाण्डं सतगरकुसुमं पुण्डरीकं मृणालं
कर्पूरोशीरगर्भं प्रचुरघृतयुतं नारिकेलं जुहाव ।
तूर्णं पूर्णाहुतिं स ज्वलदनलनिभं शैलमादाय वीरः
प्राप्तस्तत्राञ्जनेयः स किमिति भरतस्तं शरेणाजघान २४
( तदा भरतबाणेन भिन्नो हनूमान् भरतदोर्द्दण्डमुक्तकाण्ड-
प्रचण्डप्रहारमूर्च्छितविधिलिखिताक्षरपंक्तिलोपात्प्राणान्प-
रित्यक्तुमिच्छन् )
 
पुंखावशेषभरतेषुललाटपट्टो
 
हा राम लक्ष्मण कुतोहमिति ब्रुवाणः ।
संमूर्च्छितो भुवि पपात गिरिं दधानो
लांगूलशेखररुहेण सकेसरेण २५
 
85