This page has not been fully proofread.

[Hanuman Nātakam]
 
इतिहास
 
ITIHĀSA
 
यद्यदुक्तमनेन महावीरेण तत्तदिदानीमेव कृत्वा
दर्शयति परन्तु तत्करणादकालेपि महाप्रलयः स्यात् ।
(इति विचार्य प्रत्याह ) --
 
वैद्यं सुषेणमधुनैव तदानय त्वं
लंकापतेरनुचरोपि यतो भिषक्सः ।
नैवान्यथा वदति रामगिरा हनूमान्प-
र्य्यङ्कसुप्तमचिरेण तमानिनाय १७
सुप्तोत्थितं रघुपतिर्भिषजां वरिष्ठं
पप्रच्छ तं सकरुणं तरुणोपचारम् ।
स व्याजहार हिमरश्मिरुचा रजन्यां
जीवत्यसौ द्रुहिणशैलविशल्यवल्ल्या १८
तत्र रामेणाहूता वानरभटा द्रुहिणाद्रिगमनाय
रामपुरतः स्वस्वपराक्रमानुरूपं समयावधिमूचुः ।
नलस्त्रिरात्रं पुनरेति गत्वा तत्रैव मैन्दद्विविदौ द्विरात्रम् ।
सुग्रीवनीलौ पुनरेकरात्रं वीरोऽङ्गदो यामचतुष्टयेन १६
 
( रामः सभयम् -- आर्तः संकुचितमुखकमलः समरसंकटे
भगवतो रुद्रावतारस्य मारुतेः साशंकमुखकमलविकाशं पश्यति
 
हनूमान्--(सत्वरं सकरुणं गारुडस्थानमास्थायाञ्जलिपुटमभि-
नीय )
 
देव क्षणं स्तम्भ्यतामात्मा यावदेनं भिषक्चक्र-
चूडामणिं लंकां प्रवेश्यागच्छामि ॥ ( तथा कृत्वा)
नीत्वा लंकां सुषेणं पुनरनिलसुतः प्रार्थयामास रामं
देवाज्ञां देहि वीरास्तव हितकरणोपस्थिताः सन्ति सर्वे ।
लक्षाणां षष्टिरास्ते द्रुहिणगिरिरितो योजनानां हनूमां-
स्तैलाग्नेः सर्षपस्य स्फुटनरवपरस्तत्र गत्वात्र चैमि २०
 
1)
 
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
 
84