This page has not been fully proofread.

MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
 
श्रीहनुमन्नाटकम्
 
ŚRĪ HANUMAN NĀTAKAM
 
देव ! पश्य--
सप्ताम्भोनिधयो दशैव च दिशः सप्तैव गोत्राचलाः
पृथ्व्यादीनि चतुर्दशैव भुवनान्येकं नभोमण्डलम् ।
एतावत्परिमाणमात्रकटके ब्रह्माण्डभाण्डोदरे
 
क्वासौ यास्यति राक्षसो रघुपते किं कार्मुकं त्यज्यते १२
रामः--भो मारुते तथापि मामुन्मथ्य जागर्ति लंकाभटः ॥
हनूमान् -- देव ! पश्य, नीचैः सह मैत्री न कर्तव्या यतः-
खलः करोति दुर्वृत्तं नूनं पतति साधुषु ।
 
दशाननोऽहरत्सीतां बन्धनं स्यान्महोदधेः १३
दैवादप्युत्तमानां परिहरति यदा दुर्जनो वा कदाचि
न्मानं नाप्नोति तेषामनुजनितगुणानेव कुत्राधिकत्वम् ।
स्वर्भानुर्भानवीयान्हरति यदि पुनः शीतरश्मिर्मरीची-
न्ब्रह्माण्डस्येह खण्डे तदपि रघुपते किं ग्रहेशत्वमेति १४
रामः-- अये हनुमन् !
 
किं तया क्रियते वीर कालान्तरगतश्रिया
अरयो यां न पश्यन्ति बन्धुभिर्वा न भुज्यते १५
हनूमान्--
[Hanuman Nātakam]
 
(लक्ष्मणं विषमस्थितमवलोक्य लक्ष्मणवक्षो-
भिन्नं दृष्ट्वा ( सविस्मयो रामम् ) हनुमति
कृतप्रतिज्ञे दैवमदैवं यमोऽप्ययमः । )
पुनर्देव ! पश्य--
पातालतः किमु सुधारसमानयामि
निष्पीड्य चन्द्रममृतं किमुताहरामि ।
उद्दण्डचण्डकिरणं ननु वारयामि
कीनाशपाशमनिशं किमु चूर्णयामि १६
रामः--( श्रात्मगतम् )
 
83
 
-