This page has not been fully proofread.

[Hanuman Nātakam]
 
इतिहास
 
ITIHĀSA
 
विभीषणः --
 
नैव राजनि सुग्रीवे नैव रामे न चाङ्गदे
आर्येण दर्शितः स्नेहो यथा वायुसुते पुरः ७
 
जाम्बवान्--
भो राक्षसेन्द्र विभीषण !
तस्मिञ्जीवति दुर्धर्षे हतमप्यहतं बलम् ।
हनूमति गतप्राणे जीवन्तोपि हता वयम् ८
ततः सत्वरं जाम्बवता सह विभीषणः पृष्ठोपस्थितं
मारुतिं विलपन्तं रामचन्द्रमनुस्मरति ।
 
रामः-(विभीषणमवलोक्य)
गिरीन्यास्यन्त्यमी वीरास्त्वयि वत्स दिवं गते
मरिष्यामि ससीतोहं क्व यास्यति विभीषणः ६
भुक्ते मयि प्रथममत्सि फलानि वत्स
सुप्ते करोषि शयनं मयि जीवति त्वम् ।
प्राणाञ्जहासि सुरलोकसुखाय किंवा
सापत्नभावमहह प्रकटीकरोषि १०
 
(इति तारस्वरैः सर्वे रुदन्ति )
 
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
 
रामः--
हा वत्स लक्ष्मण धिगस्तु समीरसूनुं
यस्त्वां रणेपि परिहृत्य पराङ्मुखोऽभूत् ।
गोपायतीह भरतस्तु ममानुजः किं
यस्त्वामधिज्यधनुरुद्धतशक्तिपातात् ११
(अलमस्मद्वथायौवनशस्त्रभरेणेति सशरं धनुस्त्यक्तुमिच्छति )
(हनूमान्निजापराधेन सकरुणं भरतबाहुवर्णनाक-
र्णनेन साभ्यसूयं सत्वरं गारुडस्थानमभिनीय
रामपुरतः स्थित्वा )
 
82