2023-03-20 00:00:47 by ambuda-bot
This page has not been fully proofread.
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
श्रीहनुमन्नाटकम्
ŚRĪ HANUMAN NĀTAKAM
द्राङ् नारदोऽथ पितृभङ्गभयादनैषी-
त्स्थानान्तरं समरतः पवनस्य सूनुम् ।
लंकापतेर्दृढचपेटभवत्प्रहारा--
जग्नाह रामरिपुरत्र विधेस्तु शक्तिम् २
रावणः
[Hanuman Nātakam]
दृष्ट्वा शक्तिग्रहणमधिकं राक्षासेन्द्रः कृतान्त-
क्रोधाध्मातो ज्वलितहृदयाग्निस्फुलिङ्गोग्रवेषः ।
तामेव स्म क्षिपति निधने लक्ष्मणस्योग्रमन्त्रै
र्भित्वा वक्षःस्थलमपि गता भूतलं कूर्मराजम् ३
शक्तिः प्रौढोग्रतेजःप्रलयसमुदिताद्रावणात्कोपमाना-
गर्जन्ती दीपयन्ती ज्वलितदशदिशो लक्ष्मणं वेधयन्ती ।
हाहाकारप्रलापं सकलजनभवं देवदैत्येन्द्रकम्पं
ब्रह्माद्यैः स्तूयमाना भुजगपतिपुरं कारयन्ती जगाम ४
(अत्रान्तरे स्थानान्तरादागत्य हनुमता)
पश्चात्तापगते विभीषणबले क्षीणे प्लवङ्गेश्वरे
मूढे जाम्बवति प्लवङ्गमगणेऽसंभूय भूयः स्थिते ।
शक्तिप्रौढमहाप्रहारविधुरे मूर्च्छागते लक्ष्मणे
हा रामे विलपत्यहो हनुमता प्रोक्तं स्थिरैः स्थीयताम् ५
अथ विभीषणः
रात्रौ ज्वलदुल्मुकं करे कृत्वा शिबिरं पर्य्यटन्
प्रौढशक्तिज्वालावलीकवलितान् वानरान् प-
श्यति स्म को जीवति न वेति तत्र जांबवन्त-
मेवापश्यदुपविष्टं मूर्च्छारहितं नान्यम् ।
जाम्बवान् (विभीषणं प्रति)
अञ्जनी सुप्रजा येन मातरिश्वा तु राक्षस ।
हनूमान्वानरश्रेष्ठः कामं जीवति वा न वा ६
81