This page has not been fully proofread.

[Hanuman Nātakam]
 
इतिहास
 
ITIHĀSA
 
शत्रुंजये रथवरेऽर्धसमुद्गतेऽग्ने-
र्यज्ञं बभञ्ज तरसा हनुमानुपेत्य १८
 
लक्ष्मणः
 
रणप्राङ्गणे शनैश्चरादाप्य दाशरथेनार्पितं संहारास्त्रमनुस्मृत्य
सानन्दं शोकमपहाय रे रे मायारथारूढप्रौढबाहशालिन्मे-
घनाद मायां विभिद्य त्वां यमलोकं प्रस्थापयामि पश्य ।
दोः स्तंभास्फालकेलिस्फुटविकटरवध्वस्तघोरान्धकारः
संहारास्त्रं नियोज्य स्वधनुषि धरणीं पाणिनाहत्य वीरः ।
क्रोधान्धो रावणस्य ज्वलदनलशिखामुद्गिरन्पाणियुग्मे
स्थित्वा चिक्षेप सौमित्रिरथ दृढशिरो मेघनादस्य साद्रि १६
इति श्रीहनुमन्नाटके मेघनादवधो नाम द्वादशोऽङ्कः समाप्तः १२
 
ब्रह्मा
 
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
 
त्रयोदशोऽङ्कः ।
(सक्रोधम्)
 
लङ्केश्वरः सुतवधारुणवक्त्रचक्र-
स्तत्रैकवीरनिधनां क्षिपति स्म शक्तिम् ।
सौमित्रिवक्षसि रुचार्धपथे ज्वलन्ती
क्षिप्ताम्बुधौ हनुमता तरसा गृहीत्वा १
 
( रावणः शक्तिग्रहणमवलोक्य सक्रोधं ब्रह्माणं हन्तुमुद्यतः
ब्रह्मा सभयं नारदं सस्मार )
 
नारदः (प्रविश्य ) तात किमिति स्मृतोऽहम् ॥
वत्स ! यावन्मारुतिः समरभूमौ तावदेकवीरघातिनी-
शक्तिर्लक्ष्मणं न भिनत्ति । तस्मिन्पुनरभिन्ने लंकेश्वरो
मां नितरां हनिष्यतीति मत्वा समरतः पवनपुत्रः
स्थानान्तरं नेयः ॥
 
नारदः-- यदाज्ञापयति तात इति (निष्क्रम्य )
 
80