This page has not been fully proofread.

[Hanuman Nātakam]
 
इतिहास
 
ITIHĀSA
 
विश्वामित्रादपि भगवतो दृष्टदिव्यास्त्रपारः
अस्मिन्वंशे कथयतु जनो दुर्यशो वा यशो वा
विप्रे शस्त्रग्रहणगुरुणः साहसिक्याद्विभेमि ४१
परशुरामः
 
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
 
येन स्वां विनिहत्य मातरमपि क्षत्रास्त्रमध्वासवं
स्वादाभिज्ञपरश्वधेन विदधे निःक्षत्रिया मेदिनी
यद्वाणव्रणवर्त्मना शिखरिणः क्रौञ्चस्य हंसच्छला-
दद्याप्यस्थिकणाः पतन्ति स पुनः क्रुद्धो मुनिर्भार्गवः ४२
 
रामः
 
स्त्रीषु प्रवीरजननी जननी तवैव
देवी स्वयं भगवती गिरिजापि यस्यै
त्वद्दोर्वशीकृतविशाखमुखावलोक-
व्रीडाविदीर्णहृदया स्पृहयांबभूव ४३
अपि च--
हारः कण्ठे विशतु यदि वा तीक्ष्णधारः कुठारः
स्त्रीणां नेत्राण्यधिवसतु सुखं कज्जलं वा जलं वा
सम्पश्यामो ध्रुवमपि सुखं प्रेतभर्तुर्मुखं वा
यद्वा तद्वा भवतु न वयं ब्राह्मणेषु प्रवीराः ४४
परशुरामः तथापि (साभ्यसूयम् )
यच्चापमीशभुजपीडनपीतसारं
प्रागप्यभज्यत भवांस्तु निमित्तमात्रम्
राजन्यकप्रधनसाधनमस्मदीय-
माकर्षकार्मुकमिदं गरुडध्वजस्य ४५
 
रामः (धर्षणामर्षमूर्च्छितः)
पुरोजन्मा नाद्यप्रभृति मम रामः स्वयमहं
न पुत्रः पौत्रो वा रघुकुलभुवां च क्षितिभुजाम्
 
8