This page has not been fully proofread.

[Hanuman Nātakam]
 
इतिहास
 
ITIHĀSA
 
स्यान्मग्नचूचुककुचा सधवेति राम ७
हा राघव प्रियतम स्फुरतीह वामो
बाहुस्तथा नयनमप्यनृतं किमेतत् ।
नाद्यापि यन्मधुरनिर्मलदृष्टिपातैः
संभावयस्यपि विलासगिरा भुजाभ्याम् ८
उक्तं च यतः
 
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
 
संमानितापि न तथा मुदमभ्युपैति
मात्रानुजेन जनकेन तथाग्रजेन ।
श्राश्वासितापि रमणी रमणेन तूर्णं
प्रेम्णा यथा मधुरनिर्मलदृष्टिपातैः ६
प्राणेश्वरः प्रतिगिरं न ददाति रामो
हा वत्स लक्ष्मण ममापनयेन रुष्टः ।
मद्वत्सलस्त्वमपि नोत्तरमाददासि
भ्रान्त्वा भुवं मम कृतेऽथ दिवं गतौ वा १०
स्वर्गादिमौ झटिति मानवलोकयन्तौ
न ब्रह्मलोकमधिगच्छत एव तावत् ।
प्राणा दिवं व्रजत साधुगिरा मुमोच
श्वासानिलं जनकजा सह सङ्गरेण ११
 
समरादपहृतं विमानं सरमया रावणभयादित्यभिप्रायः ।
अत्र वैकुण्ठाद्गरुडः--
हाहाकारं निशम्य त्रिभुवनविदितं रावणेः कर्म घोरं
क्रोधाग्नेर्धूमधाटीदलितरिपुकुलं त्रासयन्राक्षसेन्द्रम् ।
पक्षाघातप्रचण्डप्रचलितपवनध्वस्तशैलेन्द्रपातैः
संप्राप्तो वैनतेयः स्रवदमृतरसो जीवयामास रामम् १२
रावणिः --
 
(सभयं रणसंकटमुपलभ्य सप्रपञ्चम् )
 
78