We're performing server updates until 1 November. Learn more.

This page has not been fully proofread.

MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
 
श्रीहनुमन्नाटकम्
 
ŚRĪ HANUMAN NĀTAKAM
 
क्षुद्राः संत्रासमेनं विजहत हरयो भिन्नशक्रेभकुम्भा
युष्मद्देहेषु लज्जां दधति परममी सायका निष्पतन्तः ।
सौमित्रे तिष्ठ पात्रं त्वमसि नहि रुषां नन्वहं मेघनादः
किंचिद्भूभङ्गलीलानियमितजलधिं राममन्त्रेषयामि २
सुग्रीवमारुतिनलाङ्गदनीलमुख्या
बाष्पान्धकारजलदान्तरितं प्रचण्डम् ।
तं रावणिं जलदमण्डलमास्थितं नो
पश्यन्ति तान्प्रहरति स्म स घोरबाणैः ३
मायारथं समधिरुह्य नभः स्थलस्थो
गम्भीरकालजलदध्वनिरुज्जगर्ज ।
 
बाणैरपातयदहो फणिपाशबद्धै-
स्तौ मेरुमन्दरगिरी पविनेव शक्रः ४
 
अत्रान्तरे पूर्ववैरमनुस्मरन्ती चक्रवाकी सरोवरस्था-
शशाप यो मे दयितं स रामः
सलक्ष्मणो रावणिबानजालैः ।
रणे हतोऽयं मुदमुद्वहन्ती
चन्द्रोदये नृत्यति चक्रवाकी ५ )
सरमा--
[Hanuman Nātakam]
 
श्रुत्वा हतिं दशरथात्मजयोर्विमान-
मारुह्य पुष्पकमवाप्य दशाननस्य ।
आज्ञां निनाय सरमा जनकस्य पुत्रीं
सीताविदीर्णहृदयासि दिवं गतासि ६
जानकी--
किं भार्गवच्यवनगौतमकाश्यपानां
वाणी वसिष्ठमुनिलोमशकौशिकानाम् ।
जाताऽनृताप्यहह आलपिता त्वया मे
 
77