This page has not been fully proofread.

[Hanuman Nātakam]
 
इतिहास
 
ITIHĀSA
 
रे रे शाखामृगेन्द्राः परिहरत रणप्राङ्गणं राक्षसाश्च ।
 
वज्रत्रस्ताञ्जनाद्रिप्रतिनिधिरवधिः
लंकातङ्कैकहेतुर्निपतति
 
सर्वविस्मापकानां
नभसः कौम्भकर्णः कबन्धः ३६
(मृतः कुम्भकर्णः )
 
उत्क्रान्तोऽपि स्वदेहात्प्रवरसुरवधूदोर्भिराकृष्यमाणः
प्राणत्राणाय भर्तुः पुनरपि समरापेक्षया नारुरोह ।
संगीतैर्नारदाद्यैर्मृदुमुरजरवैः स्तूयमानो विमानं
 
वीरः संग्रामधीरः शिव शिव स कथं वर्ण्यते कुम्भकर्णः ४०
लङ्काशिखरस्थो रावणः -- (सविस्मयम् )
 
मरुच्चन्द्रादित्याः शतमुखमुखास्ते क्रतुभुजः
पुरद्वारे यस्याः सभयमुपसर्पन्त्यनुदिनम्
प्रकोपव्याकम्पाधरतटपुटैर्वानरभटैः
 
समाक्रान्ता सेयं शिव शिव दशग्रीवनगरी ४१
इति श्रीहनुमन्नाटके कुम्भकर्णवधोनामैकादशोङ्कः ११
 
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
 
द्वादशोऽङ्कः-
रावणः सक्रोधं--तूर्णं पूर्णकटकं पुत्रमिन्द्रजितं दुष्करसमरयज्ञे
अध्वर्युं वृणोति स्म इन्द्रजित्सत्वरं कुम्भकर्णवधामर्षमूर्च्छितः
सीतापतिवधे बद्धलक्ष्यः समरचत्वरेऽवतीर्णः । इतो-
लक्ष्मणो धनुर्गुणटणत्कारैर्धरणिगगनान्तरमापूरयन्को-
पानलज्वालावलीभिः सलङ्काधिपां लङ्कां कवलयन्घोर-
समरनासीरेवतरति स्म ।
रावणिः--(लक्ष्मणमवलोक्य )
 
नाहं सौमित्रिकोपस्य जानेऽल्पमपि कारणम्
नूनं चञ्चलबुद्धीनां स्नेहकोपावकारणौ १
 
अपिच--
76