2023-03-20 00:00:45 by ambuda-bot
This page has not been fully proofread.
श्रीहनुमन्नाटकम्
ŚRĪ HANUMAN NĀȚAKAM
भोक्तुं कृतान्त इव नीलनलौ स दध्यौ ३३
जाम्बवान्-
दम्भोलिं कुम्भकर्णं गिरिमिव तरसा पातयञ्जानुबन्धं
कण्ठं गाढं विरच्य स्वभुजगुरुमदं जाम्बवानुग्रवेषः ।
निर्मुक्तौ तावभूतामभवदथ मरुत्पुष्पवृष्टिस्तदङ्गे
गुल्फाघातेन रोपाद्रजनिचरवरस्तन्निरस्योपतस्थौ ३४
आलक्षितो रघुवरेण सलक्ष्मणेन
कालान्तकादिव रिपोः परिशङ्कितेन ।
स्थानं जगाम हनुमान्समरेऽवतीर्य
माहेश उग्रनरसिंह इवारुणाक्षः ३५
मैनाको मेरुशृङ्गस्थित इव हनुमत्पाणिपद्ये नगेन्द्रः
कल्पान्ते मन्दराग्रेऽजन इव समरे मुद्गरः कुम्भकर्णे ।
अद्रिं क्रव्यादवीरः प्रहितमनिलजेनाच्छिनन्मुद्गगरेण
लांगूलेनाञ्जनेयोद्भुतजनितरुषा मुद्गरं द्राक् चकर्ष ३६
रामः ।
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
अत्रान्तरे रघुपतिः शरयुग्ममैन्द्रं
द्राक्कुम्भकर्णनिधनाय रणे मुमोच ।
भित्त्वा बिभेद हृदयं धरणीमथैको
मूर्धानमुद्धतमरखण्डयदस्य चान्यः ३७
हनुमान् ।
उद्यन्मरुत्तनयचण्डचपेटघाता-
न्मूर्धा पयात तुहिने रजनीचरस्य ।
भग्नो भविष्यति यदम्भसि भीमसेनो
बभ्राम पुच्छनिकृतो गगने कबन्धः ३८
लक्ष्मणः-
देवाः सर्वे विमानान्यपनयत रवेः स्यन्दनो यातु दूरं
75
-
[Hanuman Nātakam]