2023-03-20 00:00:45 by ambuda-bot
This page has not been fully proofread.
[Hanuman Nātakam]
इतिहास
ITIHĀSA
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
जृम्भासंभारभीमभ्रुकुटितटनटत्कुम्भकर्णाट्टहास-
व्यासव्याकोशवक्त्रव्यतिकरचकितप्राणिपुण्यप्ररोहः ।
लीलालोलन्मृणालीमृदुमिथिलसुतासङ्गभूपालहंसः
पायात्सिन्दूरपूर्वाचलशिखरशिरः शेखरो रामचन्द्रः १६
लंकायां कुम्भकर्णः
सुप्तोत्थितः कवलयन् पलशैलजालं
तीव्रासवं परिपिबन्नपि कुम्भकर्णः ।
तृप्तिं जगाम न तथेत्यवदत् सुराया
गंगां पिबामि यमुनां सह सागरेण १७
स्वकटके रामः--
उपस्थितं वीक्ष्य तमाह रामो लंकाशिरोनिर्मितजानुदघ्नम्
भो मारुते यन्त्रमुदस्तमेतत्किन्नेत्यवादीत्स च कुम्भकर्णः १८
कुम्भकर्णः--( रावणसमीपभागमागम्य ) भो राजन् !
यद्यपि क्षितिपालानामाज्ञा सर्वत्रगा स्वयम् ।
तथापि शास्त्रदीपेन संचलन्त्यवनीश्वराः १६
(रामाय जानकी दीयतामित्यभिप्रायः)
रावणः
इदं भ्रातृवचः श्रुत्वा तथेत्याह दशाननः ।
शास्त्रनिःसंशया वाचः सतां कस्य न वल्लभाः २०
जानकीं न समर्पयामीत्यभिप्रायाद्रावणः -- ( सावज्ञम् )
उत्क्षिप्तस्फटिकाचलेन्द्रशिखरश्रेणीनिघृष्टाङ्गदै-
रेभिः पीनतरैः सुरासुरभयप्राप्तप्रतिष्ठैर्भुजैः ।
संग्रामे मम कुम्भकर्ण विजयः किं त्वद्भुजाडम्बरः ।
प्रत्याशाशिथिलोस्म्यहं व्रज पुनः स्वापाय निद्रालयम् २१
कुम्भकर्णो भीममालम्ब्य--
राजन्मागा विषादं परिहर बलवद्विद्विषः शोकशल्यं
72
——