2023-03-20 00:00:45 by ambuda-bot
This page has not been fully proofread.
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
श्रीहनुमन्नाटकम्
ŚRĪ HANUMAN NĀTAKAM
अहो महोदरामात्य किमर्थं वल्गसेपश्य-
प्रतापं संसोढुं रविरपि दशास्यस्य न विभु-
र्निमज्जत्युन्मज्जत्यपरजलधौ पूर्वजलधौ ।
हरिः शेते वार्धो निवसति हिमाद्रौ पुरहरो
विरिञ्चिः किञ्चापि स्वनिजकमलं मुञ्चति न वा ११
अत्रान्तरे यथा रावणो न वेत्ति तथाशोकवनिकास्थित-
विमाने जानकीमारोप्य रामं दर्शयति स्म सरमा ॥
विदेहदुहितुर्दृष्टिर्दशग्रीवरिपौ बभौ
सुनीलेव मनोरम्ये तमाले मधुपाङ्गना १२
तत्र रामकृटके वानराणाम्-
हेमप्राकारजघनां रत्नद्युतिदुष्कूलिनीम् ।
लंकामेके त्रिकूटस्य ददृशुर्वनितामिव १३
लंकायां रावणः । भो महोदर ! सर्वैर्मन्त्रिभिः प्रबो-
ध्यतामयं वीरः कुम्भकर्णः ॥
महोदरः-- यदाज्ञापयति देव इतिनिष्क्रम्य कुम्भकर्णनिद्रालयं
जगाम ।
तत्र कुम्भकर्णप्रिया-
विरम विरम तूर्णं कुम्भकर्णस्य कर्णा-
न्नखलु तव निनादैरेष निद्रां जहाति ।
इति कथयति काचित्प्रेयसी प्रेक्ष्यमाणा
मशकगलकरन्ध्रे हस्तियूथं प्रविष्टम् १४
निद्रां तथापि न जहौ यदि कुम्भकर्णः
श्रीकण्ठलब्धवरकिन्नरकामिनीनाम् ।
गन्धर्वयक्षसुरसिद्धवराङ्गनाना-
माकर्ण्य गीतममृतं परमं विनिद्रः १५
स्वकटके मारुतिः --
[Hanuman Nātakam]
71
VEDIC LITERATURE COLLECTION
श्रीहनुमन्नाटकम्
ŚRĪ HANUMAN NĀTAKAM
अहो महोदरामात्य किमर्थं वल्गसेपश्य-
प्रतापं संसोढुं रविरपि दशास्यस्य न विभु-
र्निमज्जत्युन्मज्जत्यपरजलधौ पूर्वजलधौ ।
हरिः शेते वार्धो निवसति हिमाद्रौ पुरहरो
विरिञ्चिः किञ्चापि स्वनिजकमलं मुञ्चति न वा ११
अत्रान्तरे यथा रावणो न वेत्ति तथाशोकवनिकास्थित-
विमाने जानकीमारोप्य रामं दर्शयति स्म सरमा ॥
विदेहदुहितुर्दृष्टिर्दशग्रीवरिपौ बभौ
सुनीलेव मनोरम्ये तमाले मधुपाङ्गना १२
तत्र रामकृटके वानराणाम्-
हेमप्राकारजघनां रत्नद्युतिदुष्कूलिनीम् ।
लंकामेके त्रिकूटस्य ददृशुर्वनितामिव १३
लंकायां रावणः । भो महोदर ! सर्वैर्मन्त्रिभिः प्रबो-
ध्यतामयं वीरः कुम्भकर्णः ॥
महोदरः-- यदाज्ञापयति देव इतिनिष्क्रम्य कुम्भकर्णनिद्रालयं
जगाम ।
तत्र कुम्भकर्णप्रिया-
विरम विरम तूर्णं कुम्भकर्णस्य कर्णा-
न्नखलु तव निनादैरेष निद्रां जहाति ।
इति कथयति काचित्प्रेयसी प्रेक्ष्यमाणा
मशकगलकरन्ध्रे हस्तियूथं प्रविष्टम् १४
निद्रां तथापि न जहौ यदि कुम्भकर्णः
श्रीकण्ठलब्धवरकिन्नरकामिनीनाम् ।
गन्धर्वयक्षसुरसिद्धवराङ्गनाना-
माकर्ण्य गीतममृतं परमं विनिद्रः १५
स्वकटके मारुतिः --
[Hanuman Nātakam]
71