2023-03-20 00:00:46 by ambuda-bot
This page has not been fully proofread.
[Hanuman Nātakam]
इतिहास
ITIHĀSA
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
कदागतो रामोऽस्माभिर्न विदितं रामागमनदिनम् ॥
महोदरः--(सीतां प्रयच्छतु रामायेति बुद्ध्या साहसमवलम्ब्य )
राजल्लँकेश्वर !
न्यञ्चद्भूवलयं चलत्क्षितिधरं क्षुभ्यत्समस्तार्णवं
त्रस्यद्वैरिवधूविलोचनजलप्रारब्धवर्षोद्गमम् ।
प्रोदंचत्कपिवाहिनीपदभरव्याधूतधूलीपट-
च्छन्नादित्यपथं कथं न विदितं तज्जैत्रयात्रादिनम् ५
जयप्रयाणे रघुनन्दनस्य धूलीकदम्बास्तमिते दिनेशे ।
शशिप्रभं छत्रमुदीक्ष्य बाला सूर्योदये रोदिति चक्रवाकी ६
सहायार्थमिन्द्रप्रदत्तं छत्रगजतुरंगावलीसंभवो रामदेवस्य ॥
रावणः --महोदर ! रामः कुत्रास्ते ।
महोदरः--देव ! पश्य --
अङ्के कृत्वोत्तमांगं प्लवगबलपतः पादमक्षस्य हन्तु-
र्भूमौ विस्तारितायां त्वचि कनकमृगस्याङ्गशेषं निधाय ।
बाणं रक्षः कुलघ्नं प्रगुणितमनुजेनार्पितं तीक्ष्णमक्ष्णोः
कोणेनोद्वीक्ष्यमाणस्त्वदनुजवचने दत्तकर्णोऽयमास्ते ७
अपि च--भ्रूभङ्गाद्वद्धसिन्धू रघुपतिरवताद्वन्दिना वेदितोसौ
विष्टस्ते मातुलस्य त्वचि पुनरनुजं मंत्रिणो दत्तकर्णाः ।
बाणे दत्तार्धदृष्टिस्तव जयपिशुने लक्ष्मणे सस्मितो यः
सुग्रीवग्रीवबाहुः कृतचरणभरः सोऽङ्गदे रावणोऽयम् ८
गगनं गिलितं भूमिर्गिलिता गिलिता दिशः
सरितः प्लवगैः पीताः सीतापतिपदानुगैः ६
देव महोत्पातं पश्य मध्यन्दिनेऽपि
क्वचिन्मीनः कवचिन्मेषः क्वचिल्लंम्बितकृत्तिका ।
क्वचिन्मृगशिरः साईं नभो व्याधगृहायते १०
रावणः --(साभ्यसूयम्)
70