This page has not been fully proofread.

MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
 
श्रीहनुमन्नाटकम्
 
ŚRĪ HANUMAN NĀTAKAM
 
हरणकिरणमालिनं
 
न मां वेत्सि । येनोक्तं कार्तवीर्यः-
सहस्रबाहुस्त्वमहं द्विबाहुस्त्वं सैन्ययुक्तोऽस्यहमेक एव ।
त्वं चक्रवर्त्ती मुनिनन्दनोऽहं तथापि नौ पश्यतु तर्कमर्कः ३५
उत्कृत्योत्कृत्य गर्भानपि शकलयितुं क्षत्रसंतानरोषा--
दुद्दामस्यैकविंशत्यवधि विशसतः सर्वतो राजवंश्यान् ।
पित्र्यं तद्रक्तपूर्णप्रतिवचनमहो मन्दमन्दायमान-
क्रोधाग्नेः सर्वतो मे स खलु न विदितः सर्वभूतैः स्वभावः ३६
अपि च--
आश्चर्यं कार्तवीर्यार्जुनभुजविपिनच्छेदलीलाविदग्धः
 
केयूरग्रन्थिरत्नोत्कर्षणरणत्कारघोरः
 
[Hanuman Nātakam]
 
अयं कण्ठः कुठारस्ते कुरु राम यथोचितम्
निहन्तुं हन्त गोविप्रान्न शूरा रघुवंशजाः ३६
सवैदग्ध्यम्--
रः कुठारः ।
 
तेजोभिः क्षत्त्रगोत्रप्रलयसमुदितद्वादशार्कानुकारः
किं न प्राप्तः स्मृतिं ते स्मरदहनधनुर्भङ्ग्यर्युत्सुकस्य ३७
रामः सानुनयम्--
बाह्वोर्बलं न विदितं न च कार्मुकस्य
त्रैयम्बकस्य महिमा न तवापि सैषः
तच्चापलं परशुराम मम क्षमस्व
डिम्भस्य दुर्विलसितानि मुदे गुरूणाम् ३८
अपि च--
भो ब्रह्मन्भवता समं न घटते संग्रामवार्तापि नो
सर्वे हीनबला वयं बलवतां यूयं स्थिता मूर्धनि
यस्मादेकगुणं शरासनमिदं सुव्यक्तमुर्वीभुजा-
मस्माकं भवतो यतो नवगुणं यज्ञोपवीतं बलम् ४०
जातः सोऽहं दिनकरकुले क्षत्रियः श्रोत्रियेभ्यो
 
7
 
--