2023-03-20 00:00:44 by ambuda-bot
This page has not been fully proofread.
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
श्रीहनुमन्नाटकम्
ŚRĪ HANUMAN NĀTAKAM
[Hanuman Nātakam]
अङ्गदस्तथैव करोति । कटके शयानौ रामलक्ष्मणौ
निहन्तुं रावणेन प्रहिता प्रभञ्जनी नाम राक्षसी ॥
उत्खातदारुणसुतीक्ष्णकृपाणिकासौ
वीराटवीषु निशि निर्भरतः शयानम् ।
दृष्ट्वा सुदर्शनगुरुभ्रमणेन गुप्तं
रामं निहन्मि कथमद्य वरं वराकी २
तत्रावसरे प्रबुद्धमंगदं वीरमवगम्याधीरं पुनर्गन्तुमुद्यता प्रभञ्जनी ।
अङ्गदः--(सटोपम्)
मा गास्तिष्ठ निशाचरि क्षणमपि स्थित्वा पुनर्गम्यतां
यत्रास्ते भुजविक्रमाखिलजगद्विद्रावणो रावणः ।
अद्याप्यङ्गदबाहुपाशपतिता मूढे किमाक्रन्दसे
सिंहस्यान्तिकमागतेव हरिणी कस्त्वां परित्रायते ३
कटके वानरभटास्तद्वोरचीत्कारमाकर्ण्य भैरवरवै-
र्दोस्तम्भास्फालकेलिमभिनीय साटोपमुत्पाटितमू-
लोग्रशैलधारिणः प्रचण्डकोलाहलेन लङ्कामाकु-
लयन्तोऽकूपारस्येव यामिन्याः परं गताः ॥
लंकायां रावणः सूर्योदयमासाद्य वानरवाहिनीको
लाहलामर्पमूर्च्छितः समरभूमौ कटकमुत्कटं प्रस्था-
प्य लंकाबलशिखरपर्य्यंकमारुह्य पुरः स्थितेन महो-
दरेण मंत्रिणा सह रामवाहिनीमहिमानं पश्यति स्म ।
तत्र रामकटके वानराः
खेलन्तोखिलवानरा जलनिधौ दृष्ट्वा रणे राक्षसा-
नुत्पाट्याशु विमानमेव जगृहुः पृथ्वीं समां चक्रिरे ।
दृष्ट्वा तं च विभीषणं रघुपते त्राहीति वाक्यं तदा
श्रुत्वासौ हनुमानुपेत्य तरसा प्रीत्या ददर्श स्वयम् ४
लङ्कायां रावणः महोदरं पृच्छति । भो महोदर !
69