2023-03-20 00:00:44 by ambuda-bot
This page has not been fully proofread.
[Hanuman Nātakam]
इतिहास
ITIHĀSA
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
वेत्स्यामि धर्म ! कथमागतमात्मनाथम् ।
(आकाशे) मन्दोदरी रघुशराहतराक्षसेन्द्रं
चुम्बिष्यति त्वमपि वेत्स्यसि तत्र रामम् २२
अथ निजकेलिमन्दिरस्थो रावणः -- (स्वगतम्)
कृतकृत्येपि रामत्वे वर्तमाने मयि स्थिते
निरुध्यन्त्येव ताः सर्वाः पापमूलाः प्रवृत्तयः २३
जनस्थाने भ्रान्तं विषयमृगतृष्णाहतधिया
वचो वैदेहीति प्रतिपदमुदश्रु प्रलपितम् ।
कृता लंकाभर्तुर्वदनपरिपाटीषुघटना
मयाप्तं रामत्वं कुशलवसुता न त्वधिगता २४
इति श्रीहनुमन्नाटके रावणप्रपञ्चो नाम दशमोऽङ्कः १०
एकादशोऽङ्कः ।
अथ तत्र सुवेलाद्रिकटके लंकापतेः सकाशादधिगतं
दूतमङ्गदं जानकीवल्लभः पप्रच्छ । अये दूताङ्गद !
लंकेश्वरे सन्धिर्न जनिता प्रीतिकारिणी स्यादनुप-
कारिणी वा ॥
अङ्गदः--
राजन् सर्वथेयमनुपकारिणी पुलस्त्यापत्ये प्रीति-
रिति भगवानिहोदाहरणम् हरिणाङ्कशेखरस्तद्गुरुत्वात् ।
उक्षा रथो भूषनमस्थिमाला भस्माङ्गरागो गजचर्मं वासः ।
एकालयस्थेऽपि धनाधिनाथे सख्यौ दशेयं त्रिपुरान्तकस्य १
रामः-- (विहस्य)
भो महावीराङ्गद युवराज वानरभटान्ब्रूहि । भो भोः
सुग्रीवसैनिका रात्रौ सावधानतया स्थातव्यं श्वः
सूर्योदये रामस्य समरोत्सवो भविष्यति ॥
68
-