This page has not been fully proofread.

MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
 
श्रीहनुमन्नाटकम्
 
ŚRĪ HANUMAN NĀTAKAM
 
[ Hanuman Nātakam]
 
निजमन्दिरं कियन्तं समयं नीत्वा (स्वगतं) महान्तं प्रपंच-
मुत्पाद्य नूनं जानकीमनुभविष्यामीत्यवधार्य-
भेरीनिः
 
साणशंखध्वनिगणतुरगस्यन्दनस्फीतनादैः
 
सानन्दं राक्षसेन्द्रः कटकभटभुजास्फालकोलाहलेन ।
लंकामापूर्य रामः स्वयमभवदथो मायया रावणस्य
छिन्नान्मूर्ध्नो दधानः शिरसिरुहभरेष्वेकतः पञ्च पञ्च १८
एवंविदो भूत्वा पुनरशोकवनिकां प्रविश्य रावणः --
लंकाभटोऽथ रघुनन्दनवेषधारी
 

 
पापो जगाम पुरतो जनकात्मजायाः
नाम्नापि यस्य कुत इच्छति तस्य रूपा-
दन्याङ्गनापहरणे न मनः कदाचित् १६
 
जानकी रघुनन्दनवेयधारिणं तमालोक्य (सहर्षम् )
साक्षादालोक्य रामं झटिति कुचतटीभारनम्रापि हर्षा-
दुत्थायोदस्तदोर्भ्यां दरदलितकुचाभोगचैलोन्नताङ्गी ।
धन्याहं प्राणनाथ त्यज रजन्निचरच्छिन्नशीर्षाणि गाढं
मामालिंगाद्य खेदं जहि विरहमहापावकः शान्तिमेतु २०
इत्यालिंगितुमिच्छति--
रामवेषधारी रावणः-- (सविषादम् )
भूत्वा ततोप्यवसरे जनकात्मजायां
लंकापतिर्मकरकेतुशरातुरायाम् ।
क्लीबो विशीर्णमणिदण्डयुतः स्मरातः
पापात्ततः शिव शिवान्तरधीयत द्राक् २१
जानकी--
सरमोपदेशाद्रावणं रघुनन्दनवेषधारिणं मत्वा ( सविषादं )
जानकी--
हाकाश ! हा धरणि ! हा वरुणार्क ! वायो !
 
67