This page has not been fully proofread.

[Hanuman Nātakam]
 
इतिहास
 
ITIHĀSA
 
भवित्री रम्भोरु त्रिदशवदनग्लानिरधुना
स ते रामः स्थाता न युधि पुरतो लक्ष्मणसखः ।
इयं यास्यत्युच्चैर्विपदमधुना वानरचमू-
र्लघिष्ठेदं षष्ठाक्षरपरविलोपात्पठ पुनः १२
(सवैदग्ध्यम्)
 
रे रे लङ्केश लौल्यात् त्रिपुरविजयिनो मा प्रतीषीः प्रसादं
मा मां छित्त्वाल्पबुद्धे न खलु भवसि वै प्राकृतः प्राणरंकः ॥
मारारे मावितारीर्वरमनलभुवा शापितोसीति यस्य
क्रुद्धं मूर्धानमीशोप्यनुनयति भृशं सोऽयमुच्चैर्दशास्यः १३
अर्धं चेतसि जानकी विरमयत्यर्धं च लंकेश्वरः
 
किं चार्धं विरहानलः कवलयत्यर्धञ्च रोषानलः ।
इत्थं दुर्विधवैशसव्यतिकरे दाहे समेप्येतयो-
रकें वेद्मि तु पारदग्ध्यमपरं दग्धं करीषाग्निना १४
मुग्धे मैथिलि चन्द्रसुन्दरमुखि प्राणप्रयागौषधि
 
प्राणान् रक्ष मृगाक्षि मन्मथनदि प्राणेश्वरि त्राहि माम् ।
रामश्चुम्बति ते मुखं च सुमुखेनैकेन चाहं पुन-
श्रुम्बिष्यामि तवाननं बहुविधैर्मुञ्चाग्रहं मानिनि १५
जानकी--
विरम विरम रक्षः किं वृथा जल्पितेन
स्पृशति नहि मदीयं कण्ठसीमानमन्यः
रघुपतिभुजदण्डादुत्पलश्यामकान्ते-
र्दशमुख भवदीयो निष्कृपो वा कृपाणः १६
 
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
 
पश्य--
मद्ध्यानेनाभवद्रामः सीता रक्षस्तु तस्य वै ।
पश्य त्वत्कुलनाशाय मया रामेण भूयते १७
इति रावणो निष्क्रान्तः ।
 
66