2023-03-20 00:00:43 by ambuda-bot
This page has not been fully proofread.
श्रीहनुमन्नाटकम्
ŚRĪ HANUMAN NĀTAKAM
(सहर्षं, सत्रपं च) अयि परमधर्मिणि कृपातरंगिणि सरमे
किमित्यद्भुतमिति ।
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
सरमा राक्षसी--(सदयम्)
जानकि त्वं न जानीषे रावणस्यातिदारुणाम् ।
मायामासाद्य मा भैषी रामः कामं स जीवति ६
कोलाहलं काहलमर्दलानां हेषारवं सज्जतुरंगमाणाम् ।
आकर्णयाकर्णविशालनेत्रे रामागमादार्तनिशाचराणाम् ७
विरम विरम शोकात्कोपमानोऽथ रामः
सतनयपशुबन्धं रावणं मर्दयित्वा ।
बलभिदुपलनीलः कोमलः कोमलाङ्गि
त्वदधरमधुपानं हुं करिष्यत्यजत्रम् ८
जानकी--
कामं जीवति मे नाथ इति सा विरहं जहौ ।
प्राङ्गत्वा सत्यमस्यान्तं जीवितास्मीति लज्जिता ६
[Hanuman Nātakam]
रावणः
ततः पुनरप्यशोकवाटिकां प्रविशति मारनाराचभिन्नो रावणः
सुरसुन्दरीभिः परिवृतः सीताहृदये विकारमुत्पादयितुम् ।
भो जानकि पश्य ।
--
अस्मच्चण्डचपेटघातपतितस्वर्दन्तिकुम्भस्थल
स्थूलोन्मुक्तसरक्तमौक्तिकलतास्तोमार्चितांघ्रिस्तनाः ।
65
एतास्त्वत्पदपद्मषट्पदवधूप्रायाः पुरन्ध्यो ध्रुवं
सीते सम्प्रति संगतं तव सतीचारित्र्यवल्लीफलम् १०
सीते पश्य शिरांसि यानि शिरसा धत्ते महेशः पुरा
तानि त्वत्पदंसंश्रितानि सुभगे कस्मादवज्ञायसे ।
श्रुत्वैवं परदारलम्पटवचः स्मित्वा हतं रावणं
निर्माल्यानि शिरांसि तानि तव धिक्साध्वीवचः पातु वः ११