This page has not been fully proofread.

[Hanuman Nātakam]
 
इतिहास
 
ITIHĀSA
 
ग्रहह जनकपुत्री फुल्लराजीवनेत्री
नयनसलिलधारागर्भनिर्मुक्तहारा ।
रमणमरणभीता मृत्युना किं न नीता
हृदयदहनजालः संदहेद्वा विशालः २
 
(रामशिरः कमलमधिकृत्य)
 
हा राम हा रमण हा जगदेकवीर
तत्किं न स्मरसि ।
 
अधरमधु मदीयं कामकेलीषु पीत्वा-
ऽमृतमिति यदवादीस्तीरवानीरकुञ्जे ।
किममृतपरिपूर्ण शीर्णमप्यम्बरेऽर्क-
स्तम इव नहि शत्रुं नाथ मश्नासि घोरम् ३
 
रावणः
 
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
 
शिरोविरहशोकमोहरोषप्रेमाकुलामालापैराश्वासयति ।
जानकी-सत्वरं प्राणांस्त्यक्तुमिच्छन्ती भोः प्राणाधिनाथ राम ।
अहह मधुरवाणी किं न वक्त्रारविन्दे
नयनकमलयोस्ते नो मदङ्गे विलासः ।
अमरपुरवधूनां वल्लभोऽद्यापि नूनं
व्रजतु परमहंसो मे त्वदालिङ्गनेन ४
 
इति रामशिरः कमलमालिङ्गितुमिच्छति, आकाशे कोलाहलः-
न खलु न खलु सीते रामभूपालमौलिः
समरशिरसि वध्यो न प्रियस्ते कदाचित् ।
स्पृश कथमपि मातर्मा निशाचारिणस्त्वं
हर हर हरभक्तस्यैष मायावातारः ५
 
इत्याकाशवाणीश्रवणमात्रेण शिरसी गगनमुत्पत्य निष्क्रान्ते
रावणेन सह ॥
जानकी--
64