2023-03-20 00:00:43 by ambuda-bot
This page has not been fully proofread.
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
श्रीहनुमन्नाटकम्
ŚRĪ HANUMAN NĀTAKAM
रावणः
मनः प्रिये परिमलस्तव भेदमाख्या-
त्यङ्गे विदेहदुहितुः सरसीरुहाणाम् ३६
रूपे तवास्याश्च न कोपि भेदः खेदं प्रिये मदूचनेन मागाः ।
सीताधरे वा मधुरे दशास्यो रामो रमिष्यत्यथ वाथ सद्यः ४०
मन्दोदरी--
[Hanuman Nātakam]
(सकरुणा लंकामधिक्षिपति)
विभीषणः पापकथानिमग्नः स्वापाकुलोभूद्यदि कुम्भकर्णः
राजाभिमानी पतितः कलंके लंके निमग्नासि गभीरपंके ४१
इति निष्क्रान्ताः सर्वे ॥
इति श्रीहनुमन्नाटके मन्त्रिवाक्यं नाम नवमोऽङ्कः ६
अथ दशमोऽङ्कः
ततः सुन्दरं मन्दिरं प्रविश्य रावणः सानुचरः-
भो भो लंकेश्वरानुजीविनो जनाः शृणुत अहमिदानीं माया-
प्रपंचरचनाभिर्जानकीमृदुसुरभिस्फीतदोर्मूललालित्य-
विराजमानपीनोन्नतकुचकलशोपशोभितोरः स्थले खेलमान-
स्तन्मधुराधरं पास्यामि ॥
मायाविनोऽनुचराः--यद्रोचते देवस्य ।
(रावणः)
अथ रजनिचरेशो रामसौमित्रिमाया-
विरचितशिरसी तद्रूपलावण्यपूर्णे ।
गलदविरलरक्ते प्रेतपर्य्यस्तनेत्रे
जनकदुहितुरग्रे स्थापयामास पापः १
(जानकी)
सबाष्पं, शिरः सरसीरुहद्वयमालोकयति-
63
-