This page has not been fully proofread.

[Hanuman Nātakam]
 
इतिहास
 
ITIHĀSA
 
MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
 
नियुक्तहस्तार्पितराज्यभारास्तिष्ठन्ति ये स्वैरविहारसाराः
बिडालवृन्दाहितदुग्धमुद्राः स्वपन्तितेमूढधियः क्षितीन्द्राः ३४
अपि च--
उत्खातान्प्रतिरोपयन्कुसुमिताँश्चिन्वँल्लघून्वर्धयन्
क्षुद्रान्कण्टकिनो बहिर्निरसयन्विश्लेषयन्संहतान् ।
अत्युच्चान्नमयन्नताँश्च शनकैरुन्नामयन्भूतले
मालाकार इव प्रयोगचतुरो राजा चिरं नन्दते ३५
 
राजन्कार्यवशाद्विरुद्धसंग्रहोपि राज्ञा शुद्धेनाशुद्ध-
संग्रहः प्रयोजनहीनोऽपि कर्तव्यः । प्रयोजनं जनयति
क्वचित्काले । अत्र भगवान् भवतामिष्टः प्रमाणमेणाङ्कमौलिः ॥
जीर्णेप्युत्कटकालकूटकवले प्लुष्टे हठान्मन्मथे
नीते भासुरभालनेत्रतनुतां कल्पान्तदावानलैः ।
यः शक्त्या समलंकृतोऽपि शशिनं शैलात्मजां स्वर्धुनीं
धत्ते कौतुकराजनीतिनिपुणः पायात्स वः शंकरः ३६
दिग्वासा यदि तत्किमस्य धनुषा शस्त्रं च किं भस्मना
भस्माथास्य किमङ्गना यदि च सा कामं परं द्वेष्टि किम् ।
इत्यन्योऽन्यविरोधिकर्मनिरतं पश्यन्निजं स्वामिनं
भृङ्गी सान्द्रशिरावनद्धशकलं धत्तेऽस्थिशेषं वपुः ३७
ब्राह्मणं मंत्रिणं द्रोणं शुद्धं वीरं भविष्यति ।
गुरुं दुर्योधनस्त्यक्त्वा यथा त्वं मा तथा भव ३८
 
अत्रान्तरे मन्दोदरी रावणेन सह खेलमाना स्मरस्मेर
वाणीविलासलीलया अशोकवनिकामागम्य जानकी-
स्थानमाक्रम्योपविश्याह ॥
प्राणनाथ लंकेश्वर पश्य--
मन्दोदरीजनकजाङ्गमनोहरत्वे
 
भेदोस्ति कोपि यदि नाथ विचारय त्वम् ॥
 
62