This page has not been fully proofread.

MAHARISHI UNIVERSITY OF MANAGEMENT
VEDIC LITERATURE COLLECTION
 
श्रीहनुमन्नाटकम्
 
ŚRĪ HANUMAN NĀTAKAM
 
[Hanuman Nātakam]
 
विषशस्त्रादिभिः शास्त्रं तदैहिकमिति स्मृतम् २४
तुल्यः सूर्यद्विजवधैराज्ञाभंगो महीभुजाम् ।
यद्वधे यद्भवेत्पापं न शेषो वक्तुर्महति २५
अपराधं विना मन्त्री प्रभुणा पीडितोऽपि सन् ।
न वैरूप्यं क्वचिद्याति तदामुष्मिकमुच्यते २६
राज्यग्रहणशक्तोऽपि मनसापि न चिन्तयेत् ।
सचिवः स्वामिनो नाशमैहिकामुष्मिकं हि तत् २७
शुकश्च सारणो वीरश्चैहिकौ मंत्रिनौ तव ।
वानरीं तनुमास्थाय हतौ तत्र स्थितावपि २८
आवामामुष्मिकौ राजन्विरूपाक्षमहोदरौ ।
मैथिली दीयतां तूर्णं नो चेत् सहचरौ तव २६
 
रावणः
 
(सभयं सशिरः कम्पं स्वगतं वा स्वगतमेवोच्यते )
नीतिशास्त्रमिदं श्रुत्वा कुम्भकर्णः क्वचिद्वली ।
हन्ति चेन्मामतो युद्धे प्रथमं प्रेष्यतामयम् ३०
विरूपाक्षमहोदरौ--(प्रभोः शिरः कम्पनादन्तर्ग-
तमभिप्रायमवगम्य)
नीतिशास्त्रविदो धर्मं केवलं नृपतेः पुरः ।
पठनि युवराजादिपुरतो न कदाचन ३१
हा नाथ लंकेश्वर ! किमित्यावयोः श्रद्धाधिकारिणो-
र्वैरूप्यशंकामुंकुरयसि तेऽन्ये दुरधिकारिणः पापाः ॥
 
उक्तञ्च--
न सर्पस्य मुखे रक्तं न दुष्टस्य कलेवरे ।
न प्रजासु न भूपाले धनं दुरधिकारिणि ३२
तेऽप्यधिकारिणः पापा ये द्विषन्ति निजं पतिम् ।
वां तथा विधौ नैव भवानपि न मूढधीः ३३
 
61